#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00008 Uniform title: āṣṭaprakaraṇa paramokṣanirāsakārikā Main title: āṣṭaprakaraṇam paramokṣanirāsakārikā Secondary title: ratnatraya bhogakārikā nādakārikā mokṣakārikā paramokṣanirasakārikāḥ Author : sadyojyoti Commentator : rāmakaṇṭha Editor : kṛṣṇa śāstrī Description: E-text of the paramokṣanirāsakārikā from ratnatraya bhogakārikā nādakārikā mokṣakārikā paramokṣanirasakārikāḥ in the devakottai series. Notes: Data-entered by the staff of Muktabodha under the supervision of Mark Dyczkowski. Revision 0: December 12, 2007 . Publisher : śivāgama siddhānta paripalana saṅgham Publication year : 1925 Publication city : Publication country : India #################################################### परमोक्षनिरासकारिका सद्योज्योतिःशिवाचार्यप्रणीता भट्टरामकण्ठकृतव्याख्यासहिता यां सांख्ययोगविद्वांसो गतिं मोहात् प्रपेदिरे | वेदान्तज्ञानविद्वांसो गतिमिच्छन्ति वैदिकीम् || पाञ्चरात्ररता ये च ये च योगिमहेश्वराः | प्रमाणाग्नेयकर्तृत्वविशिखामलकारकाः || प्रवदन्ति मलासिद्धा ये चान्ये मोक्षवादिनः | इति रौरवसूत्रम् तदियता शिवहस्तस्य प्राधान्यं प्रतिपाद्याधुना दीक्षा-फलस्य प्रमाणस्य तावद् व्यतिरेकेण समानासमानतन्त्रान्तरगी-तानि फलानि दर्शयितुं यां सांख्ययोगविद्वांस इत्यादेः सार्धसूत्रद्वयस्य कारिकाभिरर्थमाह सत्संस्कारस्य यस्येदमङ्गजातं निरूपितम् | तत्फलव्यतिरेकाय यदुक्तं फलवर्णनम् || १ || यस्य शिवहस्तादीन्यङ्गानि दत्तपूर्वाणि, तस्य संस्कारस्या- योगान्ययोगव्यवच्छेदेनापवर्गकारणत्वतः सदिति विशेषितस्य दीक्षाख्यस्य यत्फलं वक्ष्यमाणमशेषबन्धनिवृत्तौ स्वगुणसर्वज्ञत्वाद्यभिव्यक्तिः, तद्भेदेन तन्त्रान्तरगीतानि फलानि वर्ण्यन्ते | फलभेदकथनप्रयोजनं वक्ष्यत्युपसंहारे तत्साधनेषु (श्लो० ५९) इत्यादिना || १ || तत्र क्रमेण तानुद्दिशति कैवल्यं सत्त्वसंभोगो विलयः परमात्मनि | अव्याकृतादिष्वर्वाक्त्वं लय एव विकारिषु || २ || गुणत्रयलक्षणप्रकृतिसम्बन्धो ह्यकेवलताहेतुरात्मनः | स च न सम्बन्धमात्रम्, तयोर्व्यापकत्वादात्मनः कैवल्यावस्थाया-मपि तस्य भावात् तथात्वानुपपत्तेः | अपि तु भोक्तृभोग्यरूपोऽनादिस्-तदविवेकप्रतिपत्त्यात्मकः, प्रत्ययाविवेकरूपत्वाद् भोक्तृभावस्य | यदाहुः प्रत्ययाविवेको भोगः इति | प्रकृतिर्ह्यात्मानं भोग्यत्वेन समर्पयन्त्यपि पुंसस्तमःसामर्थ्योपार्जितक्लेशभूताविद्यास्मिता-दिशक्तियोगेन तथा समर्पयन्ती विदग्धवेश्यावन्न यथा तद्विकारशेषेषु तस्य हेयत्वबुद्धिरुपजायते, अन्यथा तदतिरिक्तबन्धासिद्धेर्भोगायोगात् | संस्काराभावप्रसङ्गात् | स एव च संस्कारः कैवल्यप्रति-पक्षभूतः प्रोच्यते | यदा त्वात्मज्ञानाद् योगाद्वा तस्मात् पुंसः स्वरूपेण भास्वरेणानन्यरूषितेन विवेकः प्रकाशते, तदानीं तेनाविवेकस्य प्रतिपक्षतयैवापध्वंसितत्वात् तदात्मकस्यापि प्रसारस्य तं प्रत्यनुदयात् सर्वात्मना प्रकृतेर्भोग्यत्वनिवृत्तौ तस्य परं कैवल्यं मुक्तिरिति तच्छास्त्रवित्प्रवराः | फलान्तरमाह सत्त्वसंभोग इत्यादिना | अनादिरेव प्रकृति-संबन्धः | पुरुषो भोक्तृतया सर्वैरभ्युपगतः | न च तद्भोक्तृत्व-मौपाधिकम्, तस्य तथात्वे हि तस्य न तत् स्यात्, अन्यकृतस्य धर्मस्य नित्यकर्मव्यतिकरायोगात्, व्यतिकरे वा नासौ भोक्तेति कस्य बन्धो मोक्षो वेति भोक्तृत्वं स्वभावात्मकमेष्टव्यम् | न चानादेर्नित्य-स्वभावस्य विनाशो युक्तः, केवले पुरुषेऽपि तथाभावप्रसङ्गतो वैनाशिकत्वप्राप्तेः | तद्विनाशासंभवादेव च मुक्तावपि भोक्तृ-भोग्यसंबन्धः पुंप्रकृत्योरेष्टव्यः | केवलं चानादिकर्म-दौरात्म्यतः प्राग् दुःखमोहान्तरितसुखलयरूपिका प्रकृतिस्तस्य भोग्याऽभूत् | यत्पुनस्तत्कारणभूतसर्वकर्मप्रत्यस्तत्वम्, यतो मुक्तौ शुद्धनिरन्तरानतिशयानवच्छिन्नसत्त्वात्मसुखरूपोऽसौ भोग्य इति तत्प्राप्ताः किल सत्त्वभुजः प्रोच्यन्त इति तदागमविदां पीठबन्धः | विलयः परमात्मनीति शास्त्रान्तरफलम् | सर्वं खल्विदं ब्रह्म (छा० उ० ३ | १४ | १)नेह नानास्ति किञ्चन (कठो० ४ | १६; बृ० उ० ४ | ४ | १९) इति श्रुतिलक्षणात् सिद्धार्थविषयलब्धप्रामाण्यादपौरुषेय-तया तदन्यागमेभ्यः प्रबलतररूपादागमात् प्रतिपन्नस्य परमानन्दाद्यनेकतदागमगीतगुणस्वभावस्य प्रमाणान्तरा- गोचरानवच्छिन्नचिद्ब्रह्मणः सत्यतया तदन्येषां च भेदरूपा- णामविद्यादिनिर्माणैकसारत्वेनासत्यतयाऽवगतिः | तत एव त आहुः आत्मा यतः प्रसिद्धं च कवयोऽस्य प्रचक्षते इति | न चास्यावगमस्य भेदसत्ताप्रमाणभूतप्रत्यक्षादिबाधे अग्निना सिञ्चेदित्यादेरिवाप्रामाण्यमाशङ्कनीयम्, भेदस्येतरेतराभाव-प्रसिद्धिव्यपेक्षत्वेन वस्तुमात्रग्राहिप्रत्यक्षविषयत्वासिद्धेः, शशविषाणवदविद्यामात्रकल्पितत्वेनासत्यत्वात् | तदुक्तम् आहुर्विधातृ प्रत्यक्षम् (ब्र० सि० २ |१) इति | एवं च सति जीवात्मनामपि स्वतःप्रमाणसिद्धप्रोक्तसत्यभूतपरमात्मसारत्वेऽप्यविद्या-कलुषितत्वेन भ्रान्तत्वात् प्रसुप्तपुरुषसाधारणानामिव स्वप्नानु-भववृत्तीनां तात्त्विकप्रबोधानुदयतस्तद्रूपानुपज्ञातबोधकः संसाराभिधानभेदकप्रपञ्चः स्वरूपतोअनिदम्प्रथमः | कदाचित्तु आत्मा ज्ञातव्यः इत्यादिशास्त्रगीतक्रमेण प्रोद्बलतर- ज्ञानप्राप्तितस्तत्प्रतिपक्षभूतभ्रान्तिकारणप्रोन्मूलनेन तिरस्कृताखिलभ्रान्तिः परमात्मबोधः सुप्तप्रबुद्धस्येव स्वरूप-मात्रप्रतिष्ठो जीवात्मनः पूर्वप्रवाहविलयरूपो भवतीति | सैव परा मुक्तिरिति केषाञ्चिद् ग्रहः | नन्वत्र वृत्तिकर्तुः परिणतिवेदान्तमतिरेवोद्देश्यतयाऽभिमता न मायावादमतिः | सैव उपादानत्वसंसिद्धिः (श्लो० ४९) इति वक्ष्यमाणदूषणानुसारिणी | सत्यं तदनुसारिणी | किन्तु नैषा वेदान्तेष्वध्यात्मवित्प्रवरैर्मुख्यत्वेन गीयते | न चात्र श्रुतयोऽनु-रूपाः | सैव च यथा दूषणानुसारिणी तथात्रैव वक्ष्यमः | अव्याकृतादिष्वित्यागमान्तरफलोद्देशः | यत्र तिष्ठन्त्यणी-यांसः क्षेत्रज्ञाः कर्मभिः सह | तदव्याकृतमुच्यते | कुत्र तिष्ठन्ति ? अत्र केचिदाहुः इह यथा मृदन्वितेषु घटादिषु मृत्कार्यत्वदर्शनाद् भवद्भिः सुखाद्यन्वितेष्वपि कार्यकारणादिषु सुखादिरूपप्रधानकारणत्वमिष्यते, तथैवात्-मनां प्रधानस्य च भेदेऽप्येकसदन्वयसंभवादेककारणत्व-मिष्यताम् | अत्र वा तन्मा भूदिति विशेषाभावात् तेषां यत्कारणं सा परा प्रकृतिर्महाविभूत्यभिधाना, जडा जडकारणत्वात् | सैव साक्षादीश्वरलक्षणेन चातुरात्म्येनानीश्वरक्षेत्रज्ञात्मना जडात्मकाऽविद्यारूपेण च परिणमते | विद्या तु बुद्धिमनोभूता अविशेषात् तन्मात्रतया भूताविशेषाच्च भूततया भूतानीन्द्रि-यत्वेनेत्येवंक्रमेण सैव तथा तथा परिणमत इति परत्वं तस्याः | तदाहुः भगवान् वासुदेवः परा प्रकृतिर्ज्यायसी विभूतिर्भूतिरेव च | स स्वयं भवति भूतो भावीत्येवमणीयस्तया अव्यापकव्याप-कत्वेन तत्रैव कार्यत्वात् क्षेत्रज्ञास्तिष्ठन्तीति तत एवोपादानकार-णाद् विकृतिधर्मकादविद्याकर्मानुबन्धेन जीवात्मनां सम्भवात् | तत्क्षयतः समुपशान्तकार्यभेदरूपे तस्मिन् परमकारणात्मनि तेषां विलयः परं श्रेय इति केषाञ्चिद् दुरभ्युपगमः | अव्याकृता-दिष्वित्यादिग्रहणात् प्रकृतिलयवादिनोऽर्वाक्त्वतो येऽवस्थितास्त्वहङ्-कारादिलयवादिनस्तौष्टिकाः | तदुक्तम् आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः | बाह्या विषयोपरमात् पञ्च नव तुष्टयोऽभिहिताः || (सां० का० ५०) इति || २ || महागणो महेशस्य त्वकर्ता सर्ववेद्यवित् | कर्तृत्वेऽपि प्रयोज्यत्वं समत्वं तेजसांनिधेः || ३ || फलान्तरं सालोक्यसामीप्यादिप्राप्तिः | यदुक्तं पौष्करे अन्याभिरिह दीक्षाभिर्ननिर्वाणमवाप्यते | गाणपत्यपदं ताभिः इति | एतदेव च योगिपदेन सूत्रकृता निर्दिष्टम् | अकर्ता सर्ववेद्यविदिति दर्शनान्तरफलम् | परमेश्वरे तावत् कर्मकर्तृत्वं तनुकरण-भुवनादिकार्यान्यथानुपपत्त्या प्रतिपादितम् | एतस्मिन्नवस्थिते-ऽधुना मुक्तपुरुषे कर्तृत्वसिद्धौ न कार्यान्यथानुपपत्तिर्भवति | अथ ईश्वरवन्मुक्तत्वेन कर्तृत्वसिद्धिः, तदयुक्तम्, ईश्वरस्य मुक्त-त्वासिद्धेरदृष्टान्तत्वात् | बद्धो हि मुच्यत इति ईश्वरसिद्धयोरने-नांशेनात्यन्तवैसादृश्यम् | यथाह व्यासाक्षिण्यां तत्रभवान- वधूतः परमशिवः सिद्धान् प्रत्युपरताधिकारोऽप्यन्येष्वनुप-रताधिकारः | सिद्धः पुनरेकान्तेन सर्वत् एवोपरताधिकार इति भेदः इति | न च प्रागपि पुंसः कर्तृत्वमित्याहुः, किन्तु प्रकृतेरेव तत् सांख्यपक्षवदिति मुक्तौ कर्तृत्वस्य प्रमाणाभावादकर्तृत्वमेव | ज्ञानं तु पुंसः स्वाभाविकं प्रागनुभवतः सिद्धम् | तत्तु मुक्तावावरणाभावेन सर्वविषयं भवतीत्यकर्ता सर्ववेद्यविन्-मुक्त इति तदागमविदः | त एव हृदयप्रमाणादिग्रन्थकर्तृत्वेनात्र सूत्रकृता प्रमाणकर्तृत्वपदेनोपक्षिप्ताः | कर्तृत्वेऽपि प्रयोज्यत्वमित्यागमान्तरम् | अयमर्थः ज्ञातृत्व-वत् कर्तृत्वमपि पुंसः स्वभाव एव | न तु प्रकृतेः कर्तृत्वं युक्तम्, कारणत्वात् तस्याः | अन्यद्धि कारणत्वं स्वरूपान्यथाभाव-रूपं जडवस्तुषु स्वभावतयैव परिणामित्वाद्यव्यभिचारि क्षीर- दध्यादिष्वध्यक्षसिद्धम् | अन्यच्च कर्तृत्वं हिताहितप्राप्तित्याग-फललिप्सया सर्वान्यकारकप्रवृत्तिनिवृत्तिकारणत्वेन स्वातन्त्र्यात्म-कं शिवत्वाव्यभिचारि स्वसंवेदनसिद्धमिति वक्ष्यामो मन्त्रवार्त्ति-के | अनुमानेनाप्यात्मनां कर्तृत्वं साधितमेव तत्त्वसंग्रहादौ वृत्तिकृता | ननु कर्तृत्वे सत्यात्मनां स्पन्दात्मकत्वेन परिणामिता ? न, कर्तृत्वस्य स्पन्दात्मकत्वासिद्धेः | क्रिया हि स्पन्दः | न च क्रियारूपत्वं कर्तुः कर्तृत्वम्, कर्त्रन्तरकल्पनायाम-नवस्थाप्रसङ्गात् | अपि तु तत्र हेतुतयैव, तत्सामर्थ्येनैव कार्यकरणस्पन्ददृष्टेरिति | जडव्यापकक्रियात्मकस्पन्दः कथं चैतन्यव्यापकत्वाव्यभिचारिणि कर्तरि भवेत् | न च स्पन्दात्मकतैव कारकत्वम्, अपि तु विशिष्टशक्तियोगः, अयस्कान्तादीनामिवेत्युक्त- मस्माभिरन्यत्र | जडस्पन्दक्रियायां या शक्तिः सा कर्तृता चितो व्याप्ते स्पन्दरूपेण सिद्धाऽयस्कान्तवत् स्वत इति | तच्च कर्तृत्वं तेषामनाद्येवेश्वरप्रयोज्यतया सिद्धम् | अनादेश्च विनाशो न संभवतीति मुक्ताः शिवाः सर्वज्ञाः सर्वकर्तारः परमशिवेन प्रयोज्या एवेति तन्नीतिज्ञाः | समत्वं तेजसांनिधेरिति दर्शनान्तरफलम् | आदित्याग्न्यादिस-मता तत्तदागमेषु महोपनिषदादिषु श्रूयते यतः, आग्नेयकर्तृत्वेन चैते सूत्रकृता निर्दिष्टाः || ३ || आधिक्यं परमेशानान्निर्मलत्वं च केवलम् | सिद्ध एव हि कर्तृत्वमौदासीन्यं महेश्वरे || ४ || फलान्तरम् परमेशस्य लयाधिकाराभ्युपगमेनाधिकारा-दिबन्धयोगतः पशुत्वस्यानपायात् | यदाहुः अनुग्रहतिरोभावौ द्वौ पाशौ तु सदाशिवे इति, पशूराद्यः सदाशिवः इति च | विनिवृत्त-समस्तबन्धनात् तिरस्कृतलयाद्यवस्थाधिकारात् सर्वथैवानुपाधेः सिद्धात्मनः प्रकृष्टतरो न्यूनभाव इति | अन्ये तु पातञ्जलमुक्तिरुप- क्षिप्तेति कथयन्ति | तेषां पूर्वमेव कैवल्यपदेन सांख्यमुक्तिवत् साप्युपात्तेति पौनरुक्त्यमनिवार्यम् | न हि तयोर्मुक्तौ भेदः, प्रकृतिवियोगरूपत्वादुभयत्रापि तस्याः | अत एवाहूः एकं सांख्यं च योगं च (भ० गी० ५ | ५) इति | किन्तुपायभेदः एकत्र हि ज्ञानं तदुपायः, अपरत्र त्वभ्यास इत्यलं विस्तरेणेति | एतदेव चाधिक्यं सूत्रकृता महेश्वरपदेनोक्तम् | निर्मलत्वं च केवलमिति मलनिवृत्तिमात्रमेव मोक्षः, न तु सर्वज्ञत्वाद्यभिव्यक्तिरपि, प्रागनभिव्यक्ततत्सद्भावे प्रमाणाभावात् | सतो ह्यभिव्यक्तिरित्या-शयः | सिद्ध एव हि कर्तृत्वमौदासीन्यं महेश्वर इति | यदाह सूत्रकृत् विशिखामलकारकाः इति | परमेश्वरो हि पारार्थ्येन जगत्करणाय प्रवृत्तः | सर्वकर्तृत्वपदप्राप्तावस्थं स्वात्म-तुल्यं सिद्धमवलोक्य तत्कालमेवात्मनः कर्तृत्वं विभिन्नमित्य-नेककर्तृसंभवेन समस्तकृत्यानियमप्रसङ्गदोषतः प्रत्युत परार्थानिर्वाहकारणमेवावगम्य तदुपसंहृत्योदासीनः स्वात्मना भवति | सिद्धः पुनः परार्थनिर्वाहमनास्थयेश्वरे-णोक्तमवबुध्य सर्वकर्त्रा च विना सर्वपरार्थसंपत्तिमाकलयय करुणयैव सर्वकर्तृत्वपदमवलम्बत इति प्रवाहनित्येश्वरवादिनः || ४ || सत्कार्यकरणोपेतस्तारकाभुवने स्थितः | ज्ञानकर्तृत्वयोर्नाशः सर्वनाशस्तथापरः || ५ || अनादिरेव पुरुषः कार्यकरणैः प्रवाहतः संसरति संबद्धः | तत्रानादेर्विनाशायोगेन मुक्तौ कार्यकरणाभावे प्रमाणासंभवात् केवलं संसारपरिदृष्टकर्मनिबन्धन-दुःखशरीरेन्द्रियनिवृत्तौ प्रकृष्टतरकार्यकरणलाभतस्तारका-भुवने नक्षत्रमार्गेऽवस्थानमात्मनां मोक्ष इति केषाञ्चिद् दुरभिसन्धिः | ज्ञानकर्तृत्वयोर्नाश इति | मुक्तौ बुद्धेरभावादि- च्छाप्रयत्नयोरभावे कर्तृत्वनाशः, बुद्ध्यादीनां(नाम)भा-वश्च नवानामात्मगुणानां(नाम)भावात् | यदाहुः बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नसंस्कार-धर्माधर्माणां नवानामत्यन्तं विमोक्षोऽपवर्गः इति | सर्वनाशस्तथापर इति ग्राहकैकरूपत्वाच्चैतन्यस्य ग्राहकत्वस्य च ग्राह्यापेक्षयाऽवस्तितेर्ग्राह्यस्य चाणुस्थूलादिविकल्पैः सर्वथा संभवाभावेनावस्तुरूपत्वात् तदपेक्षस्यापि ग्राहकत्वस्य भ्रान्तत्वे सति बाधज्ञानोदयमात्रेणैव ध्वंस इति प्रदीपनीर्वाणवादिन इति | अन्यैस्तु भूतेभ्य एव विज्ञानमुत्पद्यते, तान्येवानुविनश्यतीति शरीरविनाशादेव सर्वनाश इत्येवमयं पक्षोऽभ्युपगतो जाड्यादिति || ५ || एवं च तन्त्रान्तरप्रसिद्धं फलं प्रदर्श्योपसंहरति स्वमतैर्वादिभिस्त्वेवं विमुक्तिः परिकल्पिता | दृष्टा नैव हि मोहान्धैः सदीश्वरसमानता || ६ || तैस्तैर्मोहान्धैरविद्याक्रान्तचिन्नयनैः सत्यभूतपरमे-श्वरसमतालक्षणं पतिशास्त्रैकगम्यमुक्तिलक्षणं फलं न दृष्टम् | अतस्तैरेवं विधा मुक्तिः स्वकल्पनाभिः कल्पितेति || ६ || इदानीं समानतान्त्रिकान् प्रत्याह समता च समुत्पत्तिसंक्रान्त्यावेशपक्षतः | अभिव्यक्तिः परा गीता बुद्धिवाचामगोचरा || ७ || सर्वज्ञत्वादिगुणाभिव्यक्तिरूपपरमेश्वरसमता परा प्रकृष्टा गीता | कुतः परेत्याह समुत्पत्तिसंक्रान्तावेशपक्षत इति | पश्ववस्थायां सर्वज्ञत्वादिधर्मासत्त्वान्मुक्तौ च परमेश्वर-समत्वश्रुत्यन्यथानुपपत्त्या पश्वात्मन्यपूर्व एव तदा सर्वज्ञत्वादिगुणः परमेश्वरसम उत्पद्यत इत्युत्पत्तिसमतापक्षः कैश्चिदभ्युपगतः | तथा परैरपि पटादौ कस्तूरिकामोदवत्तत्र परमेश्वरगुणः संक्रामति मुक्ताविति समस्तसंक्रान्तिपक्षः प्रतिपन्नः | एतेन शिखासंक्रान्तिवादिनः पाशुपताः सूत्रकृता विशिखाकारकत्वेनोक्ताः | अन्यैस्तु तदा परमेश्वरगुणैः स्वाश्रयस्-थैरेव सिद्धः समाविश्यते ग्रहैरिव पुरुष इत्यावेशपक्षः | एतेभ्य ईश्वरसमतापक्षान्तरेभ्य इयमभिव्यक्तिसमता वक्ष्यमाणा बुद्धिवाचामगोचरत्वात् परा || ७ || एवं तन्त्रान्तरफलानि निर्दिश्यार्थक्रमेण प्रतिक्षिपति सत्त्वभुक् तारकावासी द्वयमेतद् विनश्वरम् | भोक्ता भुवनवासी च दृष्टो लोके विनश्वरः || ८ || सत्त्वभुक् तारकावासीत्येतद्द्वयमपि फलं विनश्वरम्, भोक्तुर्भुवनवासिनश्च देवदत्तादेर्विनाशो दृष्टः | ननु भोक्तृत्वं ज्ञातृत्वमेव पुरुषस्वभावोऽत्राकर्मफलं कथं विनश्यतीत्युक्तम् ? यद्येवं सर्वज्ञ एव तदा पुरुषो भवेत्, न सत्त्वमात्रज्ञः, विशेषहेत्वाभावादित्यस्मद्दर्शनमेव भवतु | नन्वस्त्वेवम्, भुवनवासिनस्तु प्रवाहानादिभिर्भुवनादिभिः संबन्धः कथं निवर्तते | अत एव प्रवाहानादित्वात् कर्मभिस्तत्तत्-फलैर्वा दूटस्थनित्यस्वभावोऽनिवर्त्य इति परमार्थः || ८ || गणेन्द्राग्निसमौ प्रेर्यावसम्पूर्णमनोरथौ | अकर्ता चाकृतार्थो हि तद्वन्नेशे समो यतः || ९ || अत्र महागणो महेशस्य, समत्वं तेजसांनिधेः (श्लो० ३) इत्येतयोः पक्षयोः पराकृतिः | गणेन्द्रसमस्य तावदुपरितनपद-सद्भावेनैव तत्प्राप्तिकामनान्तरयोगतोऽसंपूर्णमनोरथतेति कथं मुक्तिः | एवमग्न्यादित्यसमत्वयोरपि द्रष्टव्यम् | अथास्म-दाद्यप्रत्यक्षोऽन्य एव सर्वज्ञः सर्वकर्ता च वह्न्यादित्यादिरुच्यते, यद्येवं तत्समत्वं मुक्तिरित्यस्मद्दर्शनमेवेत्यदोषः | अकर्ता चेत्यनेन अकर्ता सर्ववेद्यवित्, कर्तृत्वेऽपि प्रयोज्यत्वम् (श्लो० ३) इत्येतौ पक्षावपोद्येते | तद्वदिति | यद्वद् गणेन्द्राग्निसमावपरिपूर्णमनो-रथावुक्तौ, तद्वदेतावपि परमेश्वरसमकर्तृकत्वपदाप्राप्तिहेतोस्-तदभिलाषयोगादपरिपूर्णमनोरथत्वात् सर्वज्ञावप्यमुक्तौ | स्वरूपावप्तिरेव हि मोक्षः | कर्तृत्वमपि ज्ञातृत्ववत् पुंसः स्वभाव एवेत्युक्तम्, अतस्तदनवाप्तौ कथं मुक्तिः | अस्त्वेवम्, मन्त्रेश्वरप्रयोज्यत्वमनाद्यात्मनां कथं कदा व्यावर्तते बन्धनिमित्तत्वात् कलादिवदिति तदनिवृत्तेस्त्वसावपि विद्येश्वरवत् प्रेर्यत्वादमुक्त एवेति || ९ || आधिक्यं परमेशानात् (श्लो० ४ ) इति पक्षमाभासयति आधिक्ये साधनासत्त्वमसंस्था च द्विमार्गतः | प्रर्यत्वं परमेशाने निर्?निमित्तमथाऽऽपतेत् || १० || साधनासत्त्वं प्रमाणाभावः | नहि सर्वज्ञत्वसर्वकर्तृत्व- रूपनिर्मलप्रकृष्टतरस्वगुणव्यक्तिप्रतिलम्भतः कदाचिदात्मना-मधिकावस्था प्रमाणैरूपपद्यते, यत्प्राप्तावीश्वराधिक्यं मुक्तौ वर्ण्यते | ननूक्तमीश्वरस्य लयाद्यवस्थासमावेशेन सिद्धं न्यूनत्वमिति | अथ कोऽयमवस्थासमावेशः ? यदि वस्त्वन्तरम्, तन्नेष्यते, एकत्वाद् देवतायाः | कथम् ? धर्मपरिणति-स्थाप्याचैतन्यदोषेण पूर्वं निषिद्धा निषेत्स्यते च | अथ विवर्तः, सोऽपि न , असत्यत्वात् | तद्रूपतास्य कुतः | केवलं क्रियाशक्तिः कर्तर्यव्यतिरेकेण कर्तर्यवावस्थिता शिवपदं समुद्दीपयन्ती लयादिपदवाच्यत्वोपाधिभावं तत्र प्रतिपद्यते | सैव यदा कार्यसंपादनप्रवृत्ताऽनवाप्त कार्यविकृतिस्तदा सदाशिवपदप्र-काशिका भोगादिशब्दवाच्यतायां कारणीभवति | यदा खल्ववाप्तकार्यग्रामा अधिकारपदप्रबोध्का, तदेश्वरादिपदप्र-वृत्तौ हेतुतां भजतीति क्रियाशक्तेरेव तत्तत्कार्योपाधिभेदालम्बन-मात्रेणैवात्र भेदव्यवहारः | न वस्तुभेदः, विवर्तपरिणाम-पक्षयोरत्यन्तासंभवादिति गुरवः सच्छास्त्रविवेकनिपुणाः | यदाहुः मूर्तिस्तद्वांश्चेति हि लेशादुक्तिश्च शक्तिशक्तिमतोः (त० सं० ५०) | अत एव पञ्चस्रोतसोऽप्यस्य शास्त्रस्यैकत्वान्न देवताया भेदः, अपि तु सृष्टिस्थित्यादिपञ्चकृत्यभेदेनोपास्यमानस्य तदाकारमात्रस्यैव | अन्यथा कौलमहाव्रतादेरिवात्र शास्त्रभेदप्रसङ्गादेकत्वश्रुतिभिर्विरोधः | एवं च सिद्धस्य प्रोक्तलयाद्यवस्थानाभ्युपगमे कर्तृत्वादृष्टेः प्रत्युत ईश्वरान्न्यूनत्वमभिहितं स्यान्नाधिक्यम् | अथेश्वरस्यापि यत्परमेश्वरत्वं निरुपाधिज्योतीरूपा सर्वज्ञत्वादिशक्तिः यदाहुः यया विना न सर्वज्ञः सोऽपि तस्यै नमोऽस्तु ते इति, तत्प्रकृष्टतरं परमेश्वरस्थानात् सिद्धप्राप्यमभ्युपगम्यत इति, तदयुक्तम्, शक्तिशक्तिमतोर्भे-दासिद्धेर्व्यपदेशस्य भेदस्य कल्पितत्वात् | सर्वज्ञत्वादिशक्तेरिवे-श्वरत्वस्यापि तद्रूपत्वान्नान्योन्यता युक्तेत्यभिन्नस्वभावः शाब्दस्तु भेदो न बाध्यते | तेन च ततोऽर्थस्थितिः | शक्तेरपि यच्छक्त-त्वं तस्यापि यः प्रकर्षः, तस्यापि प्रकृष्टतरावस्था मुक्तिरित्येवं तरतमादिप्रतिपाद्यप्रकर्षभेदाव्यवस्थितेरनवस्थितिरेव मुक्तौ भवेत् | कल्पितव्यपदेशमात्रभेदस्य न कचिदप्यप्रसृतिः | तस्मादी-श्वरसमतैव मुक्तावभ्युपगन्तव्या, न त्वाधिक्यम् | अनुग्रहतिरो-भावकर्तृत्वं कर्तृत्वविशेषात्मकत्वान्न पाशात्मकम्, अनौपाधि-कत्वात् | यदपि पशुत्वमुक्तं भवता, तदाभिमानिकभेदकल्पनया शक्त्यन्तरप्रकाशप्रतिपादनफलं योगपीठसंस्थितायेति मन्त्र-भाष्यप्रतिपादितभगवत्सदाशिवपीठभाववत् सकलशास्त्रपर्या-लोचनयोपचारदृशा व्याख्येयम्, न तु पदमात्रार्थप्रतिपत्तौ ग्रहो बलवद्विधेयः | इत्यलमनुपासितगुरुभिः स्वकल्पनोत्थापितशास्त्रार्थशालिभिः सह विवादेन | यद्वा पशुराद्यः सदाशिव इति संस्कार्यसदाशिवाभिप्राये-णानुपचारत एव | तथा हि दीक्षायां विद्यातत्त्वादुद्धृतस्य क्रमेण मलक्षपणपूर्वं क्रियाशक्त्यात्मशिवत्वाभिव्यक्तिः स्थूलसूक्ष्मपरभेदेन क्रियमाणाऽनेकविद्येश्वरावस्थास्वरू-पाभिव्यक्तिर्वस्तुतो भिन्ना भिन्नस्येश्वरसदाशिवशिवरूपस्य तत्त्व-त्रयस्य प्राप्तिहेतुर्भवतीति तस्मिन् सदाशिवे प्रेर्यत्वानिवृत्तेः संस्कारमात्रविशेषत्वेन मलसद्भावात् पशुत्वमव्यावृत्तमेवेत्य- नुपचारात् पशुशब्दप्रवृत्तेरिति | एतच्च वक्ष्यति वृत्तिकारः-दीक्षयान्ते हि क्व संभवन्तीत्यादिना | संस्कारके तु सादाशिवे परमार्थतः शिवाद् भेदासंभवेन तथात्वमित्युपचारः प्रोक्तः | दोषान्तरमप्यस्मिन् पक्ष इत्याह असंस्था च द्विमार्गत इति | मार्गद्वयेनात्रानवस्थाप्रसङ्गश्च | तत्रैकेन मार्गेणाह-प्रर्यत्वमिति | अथ तावत् परमेश्वरस्य कारणं विनैव सिद्धप्रेर्य-त्वं परमेश्वरत्व मापततीति सिद्धस्यैव तदाधिक्येन तदा परमे-श्वरत्वात्, अन्यथा तदाधिक्याभिधानं निष्फलमेव सिद्धस्य स्यात्, यतस्तस्यापि च सिद्धेश्वरस्य सिद्धान्तरप्राप्तावनीश्वरता, तस्य तस्यापीत्येवमनवस्थितिः परमेश्वरस्येत्यर्थः || १० || द्वितीयेन मार्गेणाह व्यर्था च भविनां चेयं निमित्तपरिकल्पना | वैमल्यमात्रेण पशुर्न पतिः किमसौ भवेत् || ११ || येयं मुमुक्षूणां भविनामीश्वरोऽहं स्यामिति निमित्तत्वे- नेश्वरत्वेनात्मनःपरिकल्पना सङ्कल्पः फलपर्यन्तः, सा व्यर्था विगतप्रयोजना अनवस्थिता भवेत् | न कश्चित् संसारमुक्त्यर्थं यतेतेति यावत् | अधुना निर्मलत्वं च केवलम् (श्लो० ४ ) इति पक्षं दूषयति वैमल्यमात्रेणेति | पशोः किञ्चिज्ज्ञत्वात् पत्युश्च सर्वज्ञत्वादु-भयविवेकेन निर्मलस्य निर्मलत्वेनाननुभूतज्ञानशक्तितया चाभ्युपगमात् किमसावपुरुषार्थरूपो मोक्षः पाषाणप्रख्यो न किञ्चित् | अयमाशयः वक्ष्यमाणवज्ज्ञातृस्वभावत्वादेवात्मनस्-तदनभ्युपगमे तन्नाशदोष एव, यद्वक्ष्यति मूढानां ज्येष्ठमल्लास्ते येषां स्वात्मा विनश्यति (श्लो० ५७) इति || ११ || सिद्ध एव हि कर्तृत्वम् (श्लो० ४) इत्यादिपक्षं प्रतिक्षिपति किमित्यकारको देवः कारणानीकभीतितः | बहूनां युगपन्मुक्तेर्दुर्निवारा स्थितैव सा || १२ || कारकत्वं हि प्राक् सिद्धाद् भगवतोऽभूत् | तत्किमिति केन कारणेन पुरुषान्तरसिद्धौ नेष्यते | पूर्वपक्षवादी कारणमाह- कारणानीकभीतित इति | कारणानामनीकः समूहोऽनेकत्वम्, तस्माद्-भयं ततः | तथाहि सिद्धस्य तावत् तदानीं लब्धचरितार्थसर्व-कर्तृत्वतो यदा कर्तृत्वं परमेश्वरस्यापि तदा कर्तृत्वं विभिन्न-मित्यनेककर्तृसंभवेन नवमिदमस्तु पुराणमिदमस्त्विति सर्गनिर्-माणादौ वैशसं स्यात्, तद्भीतेनष्यते | एतत्सिद्धान्तवाद्याह बहूनामिति | अचिन्त्यत्वात् कारणसामर्थ्यस्य यदा युगपद् बहवो मुच्यन्ते पुरुषाः, तदा तेषां प्रत्येकं चरितार्थसर्वकर्तृत्वयोगेन तुल्यतया कर्तृत्वादविकल्पः स्यात् | अन्यतरव्यवस्थायाश्चासंभवात् समुच्चयेन कर्तृत्वे स्थितैव सा सर्गनिर्माणादिवैशस्यदायिका | कारणानेकत्वतो भीतिः | अथायं वादी लोभरागादिकारणत्वात् पुंसां मत्यन्यथाभावस्य तन्निश्चित्य मुक्तौ रागाद्यभावेना- नेकसिद्धियोगेनापि मत्यन्यथाभावेन सर्गनिर्माणादिवैशसं परिहरिष्यति, तदस्मन्मतमेव प्रत्यवेक्ष्यतीत्याशयशेषः || १२ || इदानीं समानतान्त्रिकफलानि दूषयति अथोत्पत्तावनित्यत्वमावेशेनास्वतन्त्रता | नोदाहरणसद्भावो गुणसंक्रान्तिसाधने || १३ || यैर्मुक्ताविश्वरसमता सर्वज्ञत्वादिगुणसाम्यमुत्पद्यते पुंस इतीष्यते, तन्मते उत्पत्तिमदनित्यत्वादनित्यत्वं मुक्तेरिति | आवेश इति ईश्वरगुणावेशान्मुक्तिः | साम्यपक्षेऽपि भूताविष्टस्येव पुंसो मुक्तावस्वातन्त्र्यमेवेश्वरसमतेति | संक्रान्तिसमतापक्षं पराकरोति- नोदाहरणसद्भाव इति | ईश्वरगुणा मुक्तौ संक्रमन्त इति गुणसंक्रान्तिर्नैषा भवतां न तावत् प्रत्यक्षसिद्धा, अतीन्द्रिय-त्वात् तेषाम् | अथानुमानादित्युच्यते, तदयुक्तम् | गुणसंक्रान्ति-साधनेऽनुमाने नोदाहरणस्य दृष्टान्तस्य सद्भावोऽस्ति यतः | न चादृष्टान्तमनुमानं प्रवर्तते, व्याप्त्यसंभवात् || १३ || अत्र संक्रान्तिवादी दृष्टान्तमाह ननु स्वबोधसंक्रान्तौ दृष्टं शब्दोपदेशनम् | शास्त्रे विज्ञानसंक्रान्तिर्विहिता साधकं भवेत् || १४ || स्वबोधसंक्रान्तिनिमित्तं गुरूणां शिष्यस्य विषय उपदेशेन दृष्टः | शास्त्रेऽप्यस्मिन् स्वायम्भुवादावाचार्याभिषेके ज्ञानसंक्रान्तिः श्रूयते अद्य संक्रामितो योऽयमधिकारो मया त्वयि | स कर्तव्यस्त्वया तावद् यावत् संक्रमितोऽन्यतः || (स्वा० २४ | २१) इति | सा तु गुणसंक्रान्त्यनभ्युपगमे कथमुपपद्यत इति युष्मदागमप्रत्यक्षाभ्यामत्र दृष्टान्तः सिद्ध इति || १४ || सिद्धान्तवाद्याह विज्ञानमुपदेशात्तु तादृगन्यत् प्रजायते | संक्रान्तिशब्दसादृश्ये तद्गुरोर्यन्न हीयते || १५ || उपदेशान्निमित्ताच्छिष्यबुद्धौ विज्ञानान्तरमन्यदेवात्यन्त-सदृशत्वात् संक्रान्तमिवोत्पद्यते, न तु तस्यैव संक्रान्तिः | कुत इत्याह तदिति | तज्ज्ञानं यद्यस्माद् गुरोर्न हीयते | संक्रान्तिपक्षे हि शिष्य एव ज्ञानस्य संक्रान्तेर्गुरावभावः स्यात् || १५ || शास्त्रेऽपि गुरुनियोगाद् गुरुवद् व्याख्यानादौ स्वातन्त्र्यमेव संक्रान्तिपदस्यार्थः | तथैवाचार्याभिषेकप्रकरणे गुरुणा स्वायम्भुवादौ प्रतिपादित इति नात्र संक्रान्तिः सिद्धेत्याह गुरोर्नियोगतः शास्त्रे स्वातन्त्र्यं गुरुवद् भवेत् | संक्रान्तिवचनस्यार्थस्तत्रैव गुरुणोदितः || १६ || अथ कदाचिच्छ्रुतिस्मृतिसिद्धदृष्टान्तदार्ष्टान्तिकभ्रान्त्या संक्रान्तिवादी प्रत्यवतिष्ठेत्, तदपि दृष्टान्तन्यायातिदेशेन निवर्तयितुमाह तद्वत् साधुसमाक्रोशात् पापं पुण्यं प्रजायते | क्षीयते च स्वकं पुण्यं विपर्यस्तौ क्षमावति || १७ || तथा च स्मृतिः निन्दनाद् द्विजसाधूनां पापानामथ सेवनात् | पापं संक्रमते पुंसां स्वपुण्यमपयाति च || इति | तथा क्षमावति त्वनाक्रोशात् पुण्यवद्भिः सह स्थितेः | पुण्यं संक्रमते पुंसां पापं याति ततोऽन्यतः || इत्यादिदृष्टान्तः पूर्ववत् प्रतिक्षिप्तः || १७ || यतोऽत्राप्यपूर्वयोः पुण्यपापयोरुत्पत्तिरेव संक्रान्तिरित्युच्य-ते, न तु तयोरेव संक्रमः, पुण्यार्जनविधीनां सहस्थितिमात्रे-णैव फलापहारतो वैयर्थ्यप्रसङ्गात्, प्रायश्चित्तोपदेशानर्थक्या-च्चेत्याह- पापीयसां च संसर्गात् पापमन्यत् प्रजायते | तथा पुण्यवतां पुण्यं नान्यथा तदुदीरितम् || १८ || ननु प्रदीपो वर्त्यन्तरादौ दाह्ये संक्रमन् दृश्यत् इति संक्रान्तिवादी दृष्टान्ताशङ्कां निवर्तयति दीपान्तरसमुत्पत्तिः प्रदीपादिन्धनान्तरे | संक्रान्तिस्तस्य नैवेष्टा बुद्धवैशेषिकादिभिः || १९ || अत्रापि प्रदीपशिखामात्रादतिमहतो वह्नेर्वनदाहादावुत्पत्ति-दर्शनादपूर्वोत्पत्तिरेव बौद्धाद्युपलक्षितसर्ववादिसिद्धा, न तु तस्य तावन्मात्रस्य तदेकदेशस्य वा संक्रान्तिरुपपद्यते | एतेन कस्तूरिकामोदादेः पटादौ संक्रान्तिभ्रमः पराकार्यः || १९ || संक्रान्तिवादी दृष्टान्तान्तरमाह गोत्वादेर्ननु संक्रान्तिर्व्यक्त्यन्तरविसर्पिणी | सादृश्यं यस्य गोत्वादि तं प्रत्येतन्न शोभते || २० || तत्क्षणजातायां गोव्यक्तौ तत्सामान्यस्य तत्कालमेवोप-लब्धेस्तत्क्षणात् प्रागनुपलब्धितस्तत्रासत्त्वाद् व्यक्त्यन्तरात् संक्रान्त्यनभ्युपगमे तत्संबन्धानुपपत्तेस्त्ववश्यं संक्रान्तिरेष्टव्येति सिद्धान्तवादी प्रतिक्षिपति सादश्यं यस्येति | नास्माकं सामान्यसंक्रान्तिः सिद्धा, व्यक्तिव्यतिरिक्तसामान्यस्या-नभ्युपगमात् सांख्यवद् व्यक्तित्वेनैकावयसादृश्यस्य सामान्य-रूपत्वात्, तत्क्षणजातगोपिण्डस्य संक्रान्त्याशङ्कासंभवात्, अत्र व्यक्तितः पिण्डान्तरस्य सादृश्यस्य जातत्वेन तथात्वाऽयोगात् || २० || सामान्यान्तरासत्तयैव संसृतिरित्युक्तम्, तं प्रत्येतदुच्य-मानं न शोभत इति व्यक्तिव्यतिरिक्तसामान्यवाद्यभिप्रायेणाह स्वाश्रयव्यापकं भेदेऽप्याश्रये व्यज्यते हि तत् | विसर्पणं न यस्येष्टं तस्य संक्रमणं कुतः || २१ || सर्वगतसामान्यपक्षे संक्रान्त्याशङ्कासंभवादत्र व्यक्तिगतसामान्यमेवाश्रित्याह भेदेऽपीति | तत्क्षणे जाते भिन्ने-ऽप्याश्रये व्यज्यते | तद्व्यक्तिव्यज्यत्वात् सामान्यस्य व्यक्तीनां च तद्व्यञ्जकैकस्वभावत्वान्न त्वन्यतस्तस्य संक्रान्तिः | हेत्वन्तरमाह विसर्पणमिति || २१ || अमूर्तस्य च संक्रान्तौ न लोको न परीक्षकः | निष्क्रियत्वेनामूर्तत्वेन च सामान्यस्य तैरभ्युपगमात् कुतः संक्रमणयोग्यता ? नह्येतल्लोकसिद्धं विद्वत्सिद्धं वेति || अधुना प्रदीपसामान्ययोः संक्रान्तिमभ्युपगम्याह गुणत्वं न च सामान्ये न दीपे तद् वृथोदितम् || २२ || अयमर्थः संक्रान्तिवादिना तत्सिद्ध्यर्थं गुणसंक्रान्ति-दृष्टान्ताय प्रयतनीयम् | सामान्यस्य दीपस्य च संक्रान्तिसिद्धा-वपि तयोरगुणरूपत्वात् तत्रादृष्टान्ततेति तद्वर्णनमतिनिष्फलमेव || २२ || दृष्टान्तान्तरं प्रतिक्षिपति केदारवारिसंक्रान्तिर्द्रव्यत्वादुपपद्यते | द्रव्य एव हि सा शक्तिरुक्ता सिद्धकृपाणवत् || २३ || केदाराभिधानस्य तीर्थपानीयस्य तदुपयोक्तृपुरुषसहभुजि पुरुषान्तरे द्रव्यत्वात् संक्रान्तिरभ्युगम्यत एव | निदर्शनमाह सिद्धकृपाणवदिति | सिद्धखङ्गो हि सिद्धादतिदूरदेशस्थितोऽपि तदभोयोगात् तद्धस्तमेव संक्रामति, अचिन्त्या द्रव्यशक्तयो यत इत्यर्थः | अत एव चात्यद्भुतदृष्टान्तसिद्धशक्त्यनुमानतः संक्रान्तिसाधनान्न केदारवारि क्षेत्रपानीयमत्र व्याख्येयम्, तत्सं-क्रान्तेः | प्रत्यक्षेण हि सिद्धेऽर्थे नानुमानं प्रवर्तते इति || २३ || तदियता संक्रान्तिवादिनो दृष्टान्तासंभवे प्रतिपादिते सम्प्रति संक्रान्तिवादी सिद्धान्तसिद्धमेव वस्तु दृष्टान्तीकृत्य प्रत्यवतिष्ठते चितोऽचिद्वस्तुवृत्तित्वं गुणत्वे हि समीहितम् | नान्यथा वस्तुनः कृत्ये प्रवृत्तिरुपपद्यते || २४ || चितेश्चेतनाशक्तेश्च गुणत्वेऽप्यचिद्वस्तुवृत्तित्वमभिमतं भवताम् | कुतः ? इत्याह नान्यथेति | अन्यथा तदविषयत्वे तस्य वस्तुनोऽचेतनस्य करणीयफलविषया प्रवृत्तिर्न घटते | एतदुक्तं भवति कर्तरि कर्मण्यपि ज्ञानक्रिययोरवस्थितिरेष्टव्या, चिदनन्वित- स्याचितः प्रवृत्त्यशक्तेः | सर्ववस्तूनां च स्वात्ममात्रायामेवा-वस्थितेः परस्परसंसर्गाधिष्ठानासंभवेन तत्र ज्ञेयत्वेऽपि कार्यत्वाद्यात्मको विशेषो न भवेदेव | दृश्यते च कुम्भकारादि-शक्त्याघ्रातस्य मृदादेरचेतनस्यापि कारणवस्तुनः प्रोक्तो विशेष इति तत्र चिच्छक्तेरवस्थितिरवश्यमभ्युपगन्तव्या || २४ || ततः किमित्याह इष्यतामिति सिद्धेऽपि परमेशगुणोदयः | प्रागसत्त्वादिदानीं तु महाविभवदर्शनात् || २५ || अनयैव युक्त्या सिद्धेऽपीष्यतां परमेश्वरसंबन्धिनो गुणस्यावस्थितिः | न तु सिद्धस्य प्रागपि स्वतस्तादृशो गुणो दृश्यत इत्याह प्रागसत्त्वादिति | प्राक् पश्ववस्थायां परिमितं ज्ञत्वकर्तृत्वादिगुणजातं तस्याभूत्, इदानीं तु सिद्धावस्थायां तदीश्वरसमयपरिमितं श्रूयते | न च परिमितमेव तदपरिमिती-भूतमिति युज्यते वक्तुम्, विरोधात्, परिणामिताप्रसक्तेश्च | न च तदानीमसतस्तस्योद्भवो युक्तः, अविनाशित्वेनास्योक्तत्वात् | तत्पारिशेष्यादीश्वरगुणस्यैव तथाभूतस्य तत्र तदा संक्रान्तिरिति पाशुपताः || २५ || इयत्परवचनमाशङ्क्य पराकरोति वस्त्वन्तरे न वृत्तिस्तु केवलस्य गुणस्य हि | स्वगुणिन्यधिरूढस्य तस्य स्यादुपचारतः || २६ || स्वगुणिनं परित्यज्य न केवलस्यास्य ज्ञानक्रियात्मनश्चिद्-गुणस्य वस्त्वन्तरे ग्राह्यतामापन्ने चिच्छून्ये स्थितिर्युज्यते वक्तुम् | तथात्वे हि तस्यापि ज्ञातृत्वं कर्तृता च स्यादिति सर्व एव चेतनाः स्युः सर्व सर्वेश्वराश्च, ईश्वरेण सर्वस्य संवेदनात् | किन्तु स्वगुणिस्थस्यैव तस्य तत्राश्रयान्तरे विकारवत्यवस्तितिं विनापि विकारहेतुत्वादवस्थानमुपचाराद् दृश्यते, न मुख्यतः | शक्तत्व-मेव कारणत्वम् | शक्तता चान्वयव्यतिरेकाभ्यां कर्तुः कर्मणि सिद्धेति तत्र तच्छक्त्यवस्तितिकल्पनं निष्फलमेव | नापि कर्तृक्रिया कर्मस्था युज्यत्, प्रोक्तन्यायविरोधात् | अपि तु तद्वलात् तत्रापि स्पन्दोद्भतेस्तथात्वमुपचर्यत इति || ३६ || दृष्टान्तमाह यथोष्णतागुणो वह्नेरम्भस्युच्चैर्विजृम्भते | वह्निसंस्थस्तथेशानगुणस्तस्यैव जृम्भते || २७ || औष्ण्यं वह्नेर्विशेषगुणः | न जलस्य युक्तः, भूतानां साङ्कर्यप्रसङ्गात् | पृथिव्यादीनि हि परस्परं धृतिसंग्रहपाकादि-हेतुभिर्विभिद्यन्त इति नोदकस्योष्णता गुणोऽग्निसंयोगात्परिगृहीतः, अपि तु वह्निसंस्थ इति | तत्रोदकेऽनुद्भूतरूपो वह्निरूपलभ्यमानः स्वगुणस्पर्शस्थित्या स्वकार्यं दाहादिकं करोति यथा, दार्ष्टान्तिकमाह तथेति | तद्वत् परमेश्वरसंबन्ध्यपि गुणः स्वाश्रयस्थ एवाऽश्रयान्तरे नानाविकारकारित्वेन प्रभविष्यतीति न तत्रावस्थितिकल्पनायां हेतुरस्ति || २७ || एवं चावेशपक्षो वा त्वधिष्ठातृत्वमेव वा | पक्षो हि गुणसंक्रान्तेरजातो हि मृतस्तथा || २८ || परमावेशपक्षोऽधिष्ठातृपक्षो वा यः कर्तृत्वेऽपि प्रयोज्य-त्वम् (श्लो० ३) इत्यत्रोद्दिष्टः, तयोर्न तथा, यथा संक्रान्तिपक्ष इत्याह पक्षो हीति | उत्पन्न एव मृतः || २८ || कुतः ? इत्याह शम्भुरेव हि तत्रापि सर्वं वेत्ति करोति च | स्वगुणेन न सिद्धस्तु परत्वेनास्य दर्शनात् || २९ || न केवलमावेशपक्ष एव यावत्, तत्रापि संक्रान्तिपक्षेऽपि स्वगुणेन सिद्धगतोऽपीश्वरः सर्वं वेत्ति सर्वं च विधत्ते, न तु सिद्धः | नहि पारक्येन परकर्मणाऽन्यो जानन् कुर्वन् वा दृष्टः || २९ || तत्संपर्काच्च सिद्धोऽपि सर्वकृत् सर्वविद् यदि | अचिद्वतामपि प्राप्तं तर्हि सर्वार्थदर्शनम् || ३० || तत्संपर्कादिति पराशङ्का | शम्भुगुणसम्पर्कात् सिद्धोऽपि तथाभूतश्चेत् ? परा करोति अचिद्वतामपि | अचिद्वतामपि मायादीनामपि, ईश्वरज्ञेयत्वेन तत्संपर्कस्याविशेषाद् भवेत् तदिति तेषां सर्वज्ञत्वप्रसङ्गः || ३० || प्रागसत्त्वमसिद्धं च दृष्टं ज्ञानक्रियाबलम् | उत्कृष्यमाणमुत्कर्षाद् व्यञ्जकस्थानतः स्फुटम् || ३१ || प्रागसत्त्वमितिपरोपन्यस्तयुक्तिनिरासः | यदुक्तं प्राग्भवा-वस्थायामात्मनः सर्वज्ञत्वादिसामर्थ्यस्यासत्त्वमिति, तदसत्त्वम-सिद्धम्, यतस्तेषां प्रागपि ज्ञानक्रियाबलं स्वव्यञ्जककार्य-करणादिस्थानतो दृष्टमिति यथैवात्मनो यत्र स्वव्यञ्जकं शरीरं तत्र तत्रात्मप्रतिपत्तितो व्यापकत्वं प्रतीयते, तथैव तद्गुणानां सत्त्वं व्यापकत्वं च सिद्धमिति भावः | यथैव प्राक् सिद्धं तथैव व्यञ्जकस्यालोकादेर्विषयाभिव्यक्तिं निर्वर्तयतः, सिद्धा-ञ्जनादेर्बुद्धीन्द्रियशक्तिमुत्तेजयतः, शिल्पवेदनादेः कर्मेन्द्रिय-कौशलं कुर्वतः, योगाभ्यासादेश्चित्तं जयतो यथायथमुत्-कर्षेण ज्ञत्वकर्तृत्वात्मकं स्वबलमुत्कृष्यमाणं दृष्टम् || ३१ || किमितीत्याह मोक्षे हि व्यञ्जकं दृष्टं सर्वार्थं शाम्भवं बलम् | तत्समत्वमतस्तस्य भवत् केन निवार्यते || ३२ || मुक्तावीश्वरलक्षणस्य व्यञ्जकस्योत्कृष्टतरस्य योगाद् व्यङ्ग्यस्यापि तथाभावसिद्धौ तस्येश्वरसमगुणाभिव्यक्तेरीश्वर-समत्वं भवत् केन निवारयितुं पार्यते | अभिव्यक्त्यनभिव्यक्ती चाऽऽवरणभावाभावकृते तस्य, न तु स्वरूपान्यथात्वकृते, परिणामित्वापादकेन पराहतत्वात् || ३२ || एवं स्वपक्षे दूषणमुद्धृत्य परस्य दोषान्तरमाह आश्रयान्तरसंक्रान्तिः पूर्वाश्रयविवर्जनम् | विना नैव प्रसिद्धा स्यात् त्यागे पूर्वस्तु निर्गुणः || ३३ || संक्रान्तिर्हि पूर्वाश्रयत्यागेनाश्रयान्तरे सूर्यादीनां दृष्टा | तद्वदत्रापि पूर्वाश्रयत्यागाभ्युपगमे स पूर्वः परः शिवः सर्वगुणरहितो भवेत् सिद्ध एव तद्गुणसंक्रान्तेरिति || ननु स्वाश्रये भवतस्तत्र वाश्रयान्तरे संक्रान्तिः प्रदीपप्रकाशस्येव तस्य भविष्यतीत्याह गच्छतस्तं परित्यज्य गीतं प्रसरणं हि तत् | ततश्चापरिणामित्वाद् दोषानीकं समापतेत् || ३४ || प्रदीपप्रकाशस्य हि प्रदीपोत्पत्तौ कृतायां स्वविरुद्धतमो-निवर्तनेन तत्र तत्र देशे प्रसरणं मतम्, अम्भःप्रवाहस्येव परिणतिधर्मत्वाद्युज्यते | परमेश्वरगुणस्य च यद्रूपं परिणामि तदचेतनं मृदादि दृष्टमित्यचैतन्यादिवक्ष्यमाणदोषव्रात- प्रसङ्गः || ३४ || यथा कथञ्चित् संक्रान्तौ व्यवस्था द्रव्यवर्तिनी | सर्वमानप्रसिद्धा सा विरुद्धा गुणकारिता || ३५ || अथ्वा पराहतयुक्तिकोऽपि संक्रान्तिवादी संक्रान्त्याक्रान्ताप-स्मारेण मुच्यत इति संक्रान्त्याग्रहादिच्छेदात्, एवमपि गुणकारिता गुणैश्वर्यादिप्रवर्तिता संक्रान्तिः सा विरुद्धा | द्रव्यसंक्रान्ति-रत्र युज्यते | द्रव्याणां हि संक्रान्तिः प्रसिद्धा न गुणानां यतः | ततश्च द्रव्यत्वमीश्वरगुणानां प्रसज्यत इति यावत् || ३५ || जातित्वे नैष दोषश्चेन्न ज्ञानादिगुणा हि सा | द्रव्यत्वे गौरवं कॢप्ते ज्ञानाद्याश्रयतो भवेत् || ३६ || अस्तु तर्हि सर्वज्ञत्वादीनां धर्माणां सिद्धेश्वरानेकगुण-व्यक्तिगतत्वेन गुणजातित्वम् | तस्मिन् सति तस्याः प्राप्तसिद्धभावे पुमन्तरेऽपि नवमालतीशौक्ल्यवत् संक्रान्तिर्भविष्यतीत्येवं संक्रान्तिसिद्धौ न दोषः कश्चिदिति पर्माशङ्य निवर्तयति न ज्ञानादिगुणा हि सा | न तेषां संक्रान्तिः सिद्धेति न किञ्चिदेतत् | मालत्यादिगुणानामपि तदोत्पत्तिरेव यतः | अथायं वादी सर्वज्~त्वा- दिगुणाश्रयस्येश्वरद्रव्यैकदेशस्य संक्रान्तिमिच्छेत्, तथाप्य-युक्तमित्याह द्रव्यत्व इति | एवं द्रव्यत्वेऽभ्युपगम्यमाने ज्ञानाद्याश्रयत्वेन या कल्पना तस्या गौरवं गरीयष्ट्वं प्रमाणमभ्युपगतं भवेत् | तथाहि अनेकधाऽनेकद्रव्यसमू- हरूपत्वमीश्वरस्य तस्य च द्रव्यस्य तत्तत्सिद्धप्राप्तौ ततः संक्रान्तिस्तस्य च ज्ञानाद्याश्रयत्वकल्पनमप्रमाणकमनन्तं कल्पितं स्यात् || ३६ || संक्रान्तिवादी सिद्धान्तवादिमोक्षे दोषमाह नन्वेवं पौरुषो मोक्षस्त्वभिव्यक्तौ न शाम्भवः | नन्वेवं शाम्भवो मोक्षः संक्रान्तौ नहि पौरुषः || ३७ || नन्वेवं यदि गुणास्त एव मुक्तौ पुंसो व्यज्यन्ते, तदा आत्मा ज्ञातव्यः इत्यादिवत् पुरुषकर्तृक एव मोक्षो भवतामपि प्रसक्तः, न त्वीश्वरकर्तृकः, तच्छक्त्यसंस्पर्शेन तस्य तत्र कर्तृत्वायोगात् | संस्पर्शे हि संक्रान्तिरेव स्यात् | सिद्धान्तवादी तं प्रत्याह नन्वेवं शाम्भव इति || ३७ || त्वत्पक्षेऽपि न कश्चिन्मुक्तः, परमेश्वरगुणस्य प्राक्स्थस्यैव तर संक्रान्तेरपुरुषसंबन्धितया मोक्षस्य | मत्पक्षे तु द्वयमपि युज्यत इत्याह पौरुषः पुरुषाधारः शाम्भवः शम्भुनिर्मितः | द्वयं संपूजितं व्यक्तौ संक्रान्तावेव काविति || ३८ || पुरुषे कर्मणि समवेतः, परमेश्वरकर्तृकश्चेति कर्तृकर्मलक्षणकारकद्वययोगतो भेदेन व्यपदिश्यते मोक्षः | ओदनस्य पाको देवदत्तस्य पाको वेतिवत् | न च संक्रान्तिं विना कर्तृत्वं नोपपद्यत इति युक्तम् || ३८ || सिद्धान्तवाद्येव स्वपक्षे स्वसाध्यतामाह व्यक्तिरेवेष्यतां सा हि प्रसिद्धा व्यञ्जकैः सह | तस्यामपूर्वं दृष्टं वा न किञ्चित् परिकल्प्यते || ३९ || व्यक्तिर्ह्यात्मगुणानां व्यञ्जकैः सह सुसिद्धेत्युक्तम् | सैव मोक्षेऽपीष्यताम् | ममैव दृष्टान्तानुसारिणी कल्पना भवति | न च त्वत्पक्ष इव दृष्टान्तपर्येषणादिकमत्र प्रसज्यत इति || ३९ || संक्रान्तिवाद्याह नेष्यते येन पूर्वत्र दृष्टोऽशुद्धो हि पुंगुणः | पुमानपि तथाभूतः प्रकृष्टः स किमीप्सितः || ४० || सतो ह्यभिव्यक्तिस्तद्रूपप्रत्यभिज्ञया घटादेरिव दीपादिना | इह तु सिद्धावस्थातः पूर्वमशुद्धः किञ्चिद्विषयः पुंसां गुणः सिद्धः | मुक्तौ तद्विलक्षणो ह्यत्यन्तशुद्धः परमेश्वर-समः श्रूयत इति तयोर्भेदात् पूर्वं प्रत्यभिज्ञानासंभवतो मुक्तावभिव्यक्तिर्नेष्यतेऽस्माभिः | सिद्धान्तवाद्याह पुमानपीति | भवद्दृष्ट्यापि पुमानशुद्धः, येनेदानीं हि परमेश्वरगुणसंक्रान्तिपात्रीभूतः || ४० || अत्र पराभिप्रायः स चेच्छोधनसंसिद्धो गुणा नैवं किमीप्सिताः | अणुस्तादृग्गुणोऽद्यापि कथं शुद्धः स सर्वथा || ४१ || अथाशुद्धोऽप्यसौ तदानीमीश्वरव्यापारेण दीक्षादिना शोधकेन शुद्धो भवद्भिरिष्यते, यद्येवं तद्गुणाः कथमेवं शुद्धाः सर्वविषया नेत्याह गुणा इति | न च तद्गुणाः प्राग् न सन्तीत्युक्तम् | सतां तेषामज्ञानलक्षणावृतस्य तमस इव निवृत्त्या अभिव्यक्तौ सकलाकलनिवृत्तिकृते शुद्ध्यशुद्धी परगतत्वान्नाभेद-बाधिके इति नाभिव्यक्तिमोक्षप्रतिक्षेपो युक्तः | न च संक्रान्तिपक्षे कदाचिदपि पुंसः शुद्धिरस्तीत्याह अणुरिति | यादृग्गुण एव पूर्वं पश्ववस्थायामणुरात्माऽभूत् तादृगशुद्धस्वगुण एवाद्यापि | मोक्षे तद्गुणानामतिशयो भवद्भिरभ्युपगम्यत इति कथं शुद्धः सर्वथा ? नैवेत्यर्थः || ४१ || तस्य तदात्मगुणानां शुद्ध्यनभ्युपगमेऽपीश्वरगुण-संक्रान्त्यधिकरणस्य द्रव्यमात्रस्यैव शुद्धिरस्माभिरिष्यत एवेत्यत्र सोपहासमाह द्रव्यप्रिया भवन्तो वै ज्ञाता नैव गुणप्रियाः | क्षणं वा वैदुषी येन कॢप्तः शाम्भवः पुमान् || ४२ || अयमत्र भावः परमेश्वरगुणसंक्रान्तावप्यात्मदृष्टस्य द्रव्यस्य तदा किमशुद्धास्ते गुणाः सन्ति वा न वा ? न तावन्न सन्ति, ज्ञानक्रियानाशपक्षस्य निषेत्स्यमानत्वात् | सन्ति चेत्, किं पूर्ववद-सर्वविषयाः सर्वविषया वा ? यद्यसर्वविषयास्तदाऽपि पशुरेवा-सावशुद्ध इत्युक्तम् | अथेश्वरगुणसंक्रान्तौ सर्वविषयाः, यद्येवमस्मद्दर्शनगुणशुद्धिरेवेति कथमात्मद्रव्यमात्रशुद्धि-प्रियता गुणशुद्ध्यप्रियता च भवतामुपपद्यते | गुणपक्षपातश्च महतां युक्त इत्युपहासः | दोषान्तरं संक्रान्तिवादिनामाह क्षणं वेति | विस्मृतं चैतद्भवतामीश्वरद्वैतानाश्रयणम्, येन शम्भुसंबन्धी तत्परिणतिः पुमान्न कल्पितः | मुक्तौ तावत् तद्गुणत्वेन तदद्वैतमभ्युपगतप्रायमिति भावः || ४२ || तदियता संक्रान्तिपक्षप्रतिक्षेपं विधायाऽधुना सर्वनाशपक्षं तिरस्करोति बालत्वे यौवने दृष्टान् वृद्धोऽर्थान् संस्मरेद् दृढम् | जन्मप्रमाणयोरन्तः स्थैर्यं पुंसस्ततो भवेत् || ४३ || यतो बाल्याद्यवस्थानुभूत्या तान् संस्मर्तुं शक्तो दृष्टस्तदा स्मृतिदर्शनादात्मनः स्थैर्यमभ्युपगम्यते | यदि हि प्रतिक्षणमन्योन्यश्च द्रष्टऽनुभवेत्, तदान्येनानुभूतेऽर्थे स्मृति रन्यस्य न भवेत्, चैत्रमैत्रयोरिव | दृश्यते चात्र कालान्तरानु-भूतार्थस्मरणं कालान्तरे, इत्यतः स्थैर्यम् | नन्वनुभवस्म-रणयोस्तावत् स्थिरात्मानुभववादिनापि त्वया भेदोऽभ्युपगतः | नहि त्वापि स्मरणमेवानुभवः, सर्वचित्तवृत्तीनामभेदप्रसङ्गात् भेदेऽपि तयोरतीतानुभववृत्तिकृतचित्तसंस्कारेणेदानीं वृद्धस्य स्मृतिस्तदनुभवविषया तदनुभूतार्थविषया वा भवताऽपीष्टै-व, आत्मनि विकारित्वप्रसङ्गतः संस्किआरानभ्युपगमात् | चैत्रमै-त्रचित्तप्रवाहयोस्तु परस्परं संस्कारजननकारणत्वाभावादेक-चित्तप्रवाहपतितस्यैवानुभवस्य संस्कारसाधनेन स्मृतेरुत्पत्तिस्त्वयाऽभ्युपगतेति कथमत्राभेदः प्रतिपद्यते | अथ चित्तवृत्तिव्यतिरिक्तस्यात्मनोऽत्राभेदः साध्यते, तदयुक्तम्, चित्तवृत्तिव्यतिरेकेण तस्यानुपलम्भात् | एकमेवेदं संवेदनं हर्षविषादाद्यनेकरूपं दृश्यते यतः अथासंवेदनस्यात्मनो-ऽनुमेयस्यात्र भेदः प्रतिपाद्यते, तदपि तेनादृश्येन सह कस्यचिदपि व्याप्त्यसिद्धेरयुक्ततरम् | न च कार्यान्यथानुपपत्त्याऽनुमीयते, तत्कार्यस्य स्मृत्यादेः प्रोक्तवदुपपत्तेः | कश्च तस्यानुमातेत्यपि वक्तव्यम् ? न चित्तम्, अचेतनत्वेन तस्याभ्युपगमात् | अथाचेतनस्यापि तस्य तत्संपर्माच्चैतन्यमित्युच्यते, तदयुक्तम्, चेतनसंपर्काद्ध्य-चेतनस्य चेतना भवतीति न चिद्रूपता | चिदरूपत्वे तु स एवात्मा प्रकाशक्त्वादिति किमनेन | न च तस्याप्यनुमितस्यात्मता युक्ता, प्रकाशवत् प्रकाश्ययोरात्मपररूपत्वात् | यो हि स्वयमाभासते स एव्गात्मा, यस्तु तेन प्रकाश्यते स एव तस्य प्रकाश्योऽपर इत्यसङ्-करः | आत्मपरयोरिव रूपं न संकीर्यते, सर्वस्य परस्यापरस्य चात्मत्वात् | न च प्रकाशसिद्धौ प्रकाश्यसिद्धिरस्ति, येनात्मनः परोक्षत्वेऽपि न चित्तप्रकाशोऽभ्युपगम्यत इति | एवमायातमान्ध्य-मशेषस्य जगतः | अथात्मनोऽसिद्धावपि चित्तप्रकाशोऽभ्युप-गम्यते, तर्हि प्रकाशात्मिका चित्तवृत्तिरुदयव्ययवत्येवात्मत्वेनेष्य-ताम्, किं तद्व्यतिरिक्तस्यात्मनोऽत्यन्तासिद्धस्यात्र नित्यत्वसाधनेनेति | सत्यमनुभवो न स्मरणम्, सत्यं चैकप्रवाहपतितादनु- भवादिवृत्तिसामर्थ्याहिताच्चित्तसंस्कारात् स्मृतिसंभवः, न प्रवाहान्तरस्थात् | इदं च सत्यमेव यच्चित्तव्यतिरेकेणात्मनः स्वसाक्षिकस्याभावाभिधानम् | नह्यनुभवमपह्नत्याननुभव-व्यवस्थापकानां व्यवस्था युक्तिमती | स एव व्यवस्थापको यदपह्नवे च न किञ्चिन्नापह्नतं नाम तत् | स एवानपह्नवनीयस्व- भावो निरूप्यताम् | किं प्रतिक्षणं पूर्वः पूर्वः पूर्वोत्तरक्ष-णाभ्यां भिन्नः क्षणमात्ररूपावभासो ग्राहकः प्रकाशते, अथ सर्वदैव | भिन्न इति तत्रायं स्थिररूपः प्रकाशः सर्वदैव ग्राह्योपाधिभेदेऽप्यनास्वादितात्मभेदः कालत्रयेऽपि तिरस्कृतस्व-प्रागभावप्रध्वंसाभावो नानाविधप्रमाणादनेकचित्तवृत्त्यु- दयव्ययसंवेदनेऽप्येकमपि तद्ग्राहकस्थैर्यवेदनो वृत्त्यन्तरेष्व-प्यविलुप्तज्योतिः सुषुप्त्यादावप्यखण्डितस्वसंवित् सततमेव स्वप्रकाशत्वेन गम्यत्वादात्मपदप्रतिपाद्यः प्रतिपुरुषं स्वसं-वेनसिद्ध इति | किमत्रान्येन साधनेन | तामेवात्मसंविदमभिन्ना- मनपायिनीं चाश्रित्य सर्वैः कालान्तरफलानि कर्माण्यारभ्यन्ते | क्षणिकत्वे तु तस्याः सर्वव्यवहारप्रत्यस्तमयं सर्व-ज्ञानानां क्षणमात्रवेदनोत्तरध्वंसतः क्षणान्तरे संभवाभावात् कः प्रवर्तेत्, कुत्र किमर्थं वा ? यतो नहि क्षणात्मवादिनो नाहं न ममेति पश्यतः प्रवृत्तिर्घटत इति निरीहं स्वरूपनिष्ठं प्रकाश-मात्रं हेयोपादेयबुद्धिविकलं मिथ्याज्ञानविचारबोधाद्यनेक-ज्ञानशून्यं जगद् भवेत् | स्थिरग्राहक्प्रकाशपूर्वत्वादेव- मादेः सर्वस्येत्यनपह्नवनीयोऽयं प्रकाशो व्यवहारहेतु-भूतः कालान्तरभाविफलप्रवृत्तिकारणं सवदैव स्यात् | सत्यं ग्राहकोऽप्ययं एकरूपः स्थिरग्राहकप्रकाशः सर्व- व्यवहारसंपादनक्षमोऽनपह्नवनीय एव | स पुनर्न स्वसंवे-द्यः, अपि तु ग्राहकक्षणप्रवाह एवानुभूयमाने तत्सादृश्यदर्श-नभ्रान्तैर्विकल्पेनारोप्य प्रकाश्ययः | ततः प्रवाहस्यैवैक्यमिति न पुनर्भ्रम एव, विषय वैलक्षण्येन कर्मतया तदैक्यस्य संवेदनात् | यदि ह्येतदारोपितं स्यात्, तदारोपिकाभिमतस्य स्वतः क्षणमात्र- ध्वंसित्वेनाप्रतिभासनात्, तत्प्रतिभासित्वे ह्यात्मत्वोपपत्तेः, आरोपस्य पूर्वापरपरामर्श- रूपत्वेन स्थिरबोधनिवर्त्यत्वात् | न च क्षणात्मनोऽपि युगपत्पूर्वापरयुक्तदीर्घविषयत्वतः समारोप-कत्वम्, अयोजनात्मकत्वेनाविकल्पकत्वादलातचक्रादिप्रतिभासवत् | अत एव युगपत् सर्वार्थविषयत्वेऽपि योगिज्ञानमविकल्पककल्पमित्युक्तम् | योजितविषयं तदिति चेत् सर्वेषां क्षणिकत्वेन योजनानुपपत्तेर्न किञ्चिदेतत् | अत एवानेकेषामपि क्रमभाविनां विकल्पक्षणानां नारोपकत्वमित्यारोपासंभवात् तदङ्गताविकल्पनात् | न च ग्राह-कात्मन्येव वक्तुं शक्यते, येन स्वात्मन्यविकल्पको विकल्पः | अत एवास्याहं प्रत्ययविषयताऽपि न सम्भवति, अपि त्वहंप्रत्यय-प्रकाशरूपतैव, तदापि तेन रूपेण स्थिरतयैवाहमवभासनात् | न हि कालत्रयेऽपि ग्राहकात्मनो ध्वंसः संवेद्यत इत्युक्तम् | यस्य हि प्रागभावः सौत्पन्नः, यस्य हि पुंस उत्पत्तिः स नष्टः | अहंप्रत्ययस्य पुनः पूर्वोत्तरयोः कोट्योर्नस्त्यभावः | संवित् प्रतिक्षणमुत्पन्ना निरूढा भवेदिति न शक्यते वक्तुम्, न वा स्वसंवेद्यः संविद्धर्मो भवतीति वक्ष्यामः | तत्स्थूलसूक्ष्म्यो-रिव स्थिरक्षणिकयोः परस्परविरुद्धरूपत्वाद् विद्युदादौ क्षणि-कत्वं प्रमाणसिद्धं सदक्षणिकत्वं व्यावर्तयति | यथैवमत्र स्वात्मारोपासंभवेन स्थैर्यमवभासमानमसंशयं क्षणिकत्वं व्यवच्छिनत्तीति युक्तम् | न च स्वसंवेदनस्य बाधः संभवति, येन भ्रान्तता भवेदिति वक्ष्यमः | न च प्रमाणसिद्ध-स्य बाधकं विनाऽन्यथाभ्युपगमो मतिमावर्जयति विपश्चिताम् स्थिरस्यार्थक्रियानुपपत्तिरेव बाधिकेति चेन्न, तदनुपपत्तेस्तत्र निषेत्स्यमानत्वनाबाधकत्वात् | तदत्र प्रकाशे स्वचित्तव्ययोदय-साक्षिणि स्थिररूपे ह्यात्मनि ग्राहके स्वसंवेदनात् स्वकर्तृत्वं प्रोक्तवदात्मसंवित्तिप्रोद्धारफलं पराभिहिततदभावसाधन- हेतुव्राततिरश्चीनतया हेतुकृतम्, न तु स्मृतिः | सा ह्यतीतादनु-भवाद् भिन्नैव | स्मर्ता तु न भिद्यते, तस्यैव पूर्वानुभवितृत्वेन तदा स्वसंवेदनादिति तदभेदात् तत्राहेदोपचारः, न वस्तुतोऽभेद इत्यलमतिसूक्ष्मानुभवविचारेण मुग्धमतितपस्विजनमनःखेदजनकेन || ४३ || एवं जन्ममरणयोर्मध्ये पुंसः स्थैर्यं प्रतिपाद्याधुना यैर्भूतेभ्य एव ज्ञानस्योत्पत्तिरित्युक्तं तान् प्रति जन्मनः पूर्वं साधयितुमाह - जन्मान्तरानुभूतेऽर्थे स्मृतिरन्यस्य संभवेत् | अशनाय भवेत् सा च स्तन्यं प्रत्युपसर्पणात् || ४४ || यदि हि शरीरेण सह चैतन्यमुत्पद्यते, तदा तदहर्जातस्य बालकस्य बुभुक्षितस्याशनाय भोजनार्थं स्तन्यं प्रति क्षीरप्राप्तये प्रवृत्तिर्निगरणात्मको व्यापारो न स्यात् | एतच्चोपलक्षणमन्येषां स्थानकरणाभिघातादीनाम् | यदाहुः - आद्यः करणविन्यासः प्राणस्योर्ध्वं समीरणम् | स्थानानामभिघातश्च न विना (न विना शब्दभावनामिति तत्रत्यः पाठः) पूर्ववेदनाम् || (वा० प० १ | ११४) इति | दृश्यते च प्रवृत्तिः | सा जन्मान्तरपूर्विकां स्मृतिं तदा गमयति | ननु यथा जृम्भाद्युद्-भवो बालस्य जातिधर्मतया वस्तुशक्तित एव भवति, एवमेतदपि भविष्यतीत्यसमञ्जसमेतत् | अवगमपूर्वकत्वादस्य सर्वस्य ह्यवगमं विना नोद्भवः | केशनखादेरिव तस्य जृम्भादेर्जाति-धर्मता युक्ता | क्षीरनिगरणस्य त्विच्छाजन्यप्रयत्नविशेषसाध्य-त्वेन दृष्टत्वान्न जातिधर्मता | क्षीरं हि तत्क्षणजातेनापि बालेनार्थितया स्तनात्पूर्वं प्रयत्नविशेषेणाकर्षणात् | आकृष्यते च तेन मुखमापूर्य न तद्वमति, अपि तु तृप्तिलक्षणफलावधि निगरन्नपि तथा तथा निगरन् दृश्यते | न च यथा यथा प्राणाख्य-वायुरोधस्तस्य जायत् इत्येवमादिहिताहितप्राप्तित्यागनिमित्तस्य प्रयत्नविशेषेकार्यस्य दर्शनाद् बालानां हिताहितबुद्धिं ज्ञात्वाऽनुमितपूर्वानुभूतहिताहितस्मृतिसिद्धिः || ४४ || अत्रैवाभुच्चयमाह - जातिस्मराश्च दृश्यन्ते कुर्वन्तः प्रत्ययं जनाः | न चान्येनानुभूतेऽर्थे स्मृतिरन्यस्य संभवेत् || ४५ || भूतपूर्वजन्मस्मर्तारो जातिस्मराः प्रत्यक्षा एव | यदि नाम स्मृतिर्जन्मान्तरविषया दृष्टा वा अनुमिता वा, ततः किमित्याह् - न चान्येनेति | अनुभवस्मरणयोरैकाधिकाण्यं पूर्वमेव प्रतिपादितमिति जन्मनः प्रागपि सत्तासिद्धिरनुभवितुः || ४५ || ततोऽनेनापि सिद्धेन किमित्याह - एवं चानादिका पुंसामुन्नेया जन्मपद्धतिः | अनादेर्वस्तुनो मानं विनाशित्वे न संभवेत् || ४६ || प्रतिजन्म पूर्वव्यतीतजन्मसंस्कारपूर्वकव्यवहारदर्शा-नाज्जन्मप्रतिबन्धः पुंसः सिद्ध इत्यनादित्वं तेषां सिद्ध्यति | न तु भूतेभ्य एवोत्पादित इति | ततश्चानादित्वात् सिद्धात् सर्वनाशपक्ष-निषेध इत्याह - अनादेरित्यादि | विनाशित्वे विनाशित्वनिमित्तमानादेर्-वस्तुनः प्रमाणं न संभवेत् | प्रमाणाभावेनार विनाशा- संभवो लक्ष्यते | तेनानादेर्वस्तुनो विनाशित्वं न संभाव्यत इत्यर्थः | उत्पत्तिमतां ह्यनित्यत्वं सिद्धव्याप्तिकत्वात् सिद्ध्यति, नानुत्पत्तिमतां यतः | अनुत्पत्तिधर्मा चात्मेत्युक्तम् | स्यादेतत् | अनादेरात्मनो विनाशित्वे प्रमाणमस्ति अर्थक्रियाकर्-तृत्वम् | तथाहि - नित्यस्यार्थक्रियाकर्तृत्वं स्वभावः, तदभावत्वे-ऽवस्तुत्वप्रसङ्गात् | स च स्वभावस्तस्यैक एव, नानास्वभावत्वे हि तस्यापि नानात्वं स्वभावभेदलक्षणत्वात् | भावभेदस्यैकस्व-भावत्वे च सर्वदैव स्वनिवृत्त्या सर्वार्थक्रियाकर्तृत्वस्वभावत्वा- देकस्मिन्नपि क्षणे सर्वस्वकार्यकरणप्रसङ्गात् कार्ययौगपद्यं भवेत्, तत्स्वभावस्य तदाऽपि भावादिति क्रमेण कार्योत्पादाभावः | नच क्रियाकालनियमो भवेत् | द्वितीयस्मिन्नपि क्षणे तत्स्वभावत्वे तथैव कुर्यात् | द्वितीयक्षणकृताश्चार्थक्रियाः पूर्वमेव कुर्यात्, पूर्वक्षणकृताश्च पुनर्द्वितीयस्मिन् क्षणे इत्याद्यनवस्थितेरेकस्व-भावस्य युगपदपि कार्योत्पादानुपपत्तिरिति सा तत्रानुपपद्यमाना प्रकारान्तरा-भावद्वस्तुधर्मत्वेन तत्प्रतिपक्षेषु क्षणमात्र-ध्वंसिष्वभावेषु विश्राम्यतीति क्षणिकत्वं भावानाम् | क्षणि-कत्वे तु स पूर्वः पूर्वार्थक्रियाकर्ता ध्वस्तोऽन्यश्चापूर्वोऽपूर्-वार्थक्रियाकर्ता | समुत्पद्यत इति न क्रमेणानुभूयमानाया अर्थक्रियायाः कदाचिदनुपपत्तिरिति न दोषः | ततश्चात्मनोऽप्यर्थ-क्रियालक्षणत्वमेव विनाशित्वे प्रमाणमिति विनश्वर आत्मेति सिद्धम् | तदेतदयुक्तम्, स्वात्मनो ग्राहकस्य स्थिरत्वेनैव संवेदनात् | न च तस्मिंश्च क्षणिके स्वभावनिवृत्त्यादेः क्षणविचारस्याप्यत्रा-संभव इत्यप्ययुक्तमेव | न च भ्रान्तिघटितात् स्थैर्याद् भविष्यतीति वाच्यम्, स्वसंवित्तौ भ्रमाभावात् | ततश्च ग्राहकस्थैर्यावभासो विचारदर्शनान्यथानुपपत्तिलक्षणेन चैक्यानुमानेन स्वसंवादो- ऽर्थक्रियानुपपत्तिघटितस्य क्षणिकत्वस्य बाधकं प्रमाणम् | ननु स्थिरस्यार्थक्रिया नोपपद्यत इत्युक्तम्, तदप्ययुक्तम्, तस्य ह्येकस्व-भावत्वेऽपि विशिष्टसहकारिसन्निधौ कार्यकरणैकस्वभावत्वात् तत्सन्निधान एव करोति न प्राक् तत्सन्निधानाभावादिति न क्रमेण कार्यानुपपत्तिः | अथ कुशूलस्थस्य बीजस्य क्षित्यादिसहकारिसन्नि- धावङ्कुरजनकस्वभावस्य सामर्थ्ये सत्यसति वा तज्जननं सामर्थ्ये सत्यसति च सहकारिणि तज्जननसामर्थ्ये वा सहकारिसन्नि-धौ कार्यकरणैकस्वभावत्वात् तत्सन्निधानेऽयसामर्थ्यमेक-स्वभावत्वात् सहकारिभ्यः सामर्थ्यलाभे वा पूर्वमसमर्थः पश्चात्समर्थ इति स्वभावभेदाद् भेद एव तस्येति नैकता | अत्रोच्यते - समर्थोऽप्यसौ तत्सन्निधान एव कार्यं करोति, तथा स्वभावत्वान्नान्यदा | ननु समर्थश्चेत् किमिति सन्निधानमपेक्षते ? तथा स्वभावत्वादित्युक्तम् | स्वहेतुभिः स्वभावाद्वा स तथाभूत-स्वभाव एव भावो भवति, यः समर्थोऽपि तथाविधसहकारिकारि-सन्निधौ कार्यं करोति, नान्यदेत्यत्रान्वय-व्यतिरेकावे स्थिरवस्तुनि विषये प्रमाणम् | न च स्वभावा भावानां पर्यनुयोगमर्हन्ति | नहि किमर्थं वह्निर्दहति न जलमित्यत्र पर्यनुयोगः शक्यते कर्तुम् | अथ सहकारिसन्निधौ जनकाद्भिन्नस्तस्य स्वभावो जननाभावा-देवेत्युच्यते, तदाऽपि सहकारिसन्निधिकार्यकरणैकस्वभावत्वात् तत्सन्निधौ तु स एवेति न भेदः | नह्यस्मात् स्वभावात् कालत्रयेऽपि प्रच्यवते भावः | सहकार्यसन्निधानात्तु न तदा तत्कार्योद्भव इति तत्सन्निध्यसन्निधी परं भिद्येते, न तु वस्तुभेदः | ननु यदि सहकारिगतौ सन्निध्यसन्निधी, तर्हि सहकारिणो भेदं कुरुतः, विरुद्धस्वभावत्वात् | न तत्राऽपि विरोधः, तस्याऽपि सन्निधायकः | तस्य सहकारिणि सन्निधिस्वभावत्वात् तस्याप्यन्यसह-कारिसन्निधाविति नानियमः | स्वभावनियमत्वाद् भावानां वचित्र्यस्येति सहाकारिणामपि क्षित्यादीनां बीजादिकारणसन्निधौ तत्कार्यकरणस्त्वसौ तत्सदृश एव स्वभावः | येन तत्सन्निधान एव कार्यं कुर्वन्नान्यदेति सर्वेषां तत्कारकत्वस्वभावः परस्पर-सन्निधानापेक्ष इति सर्वे कारकाः सहकारिपदवाच्या नैकैकः | न च तेषां स्वभावभेदः | सर्वेषां च सामर्थ्येऽपि न कार्यानेक-प्रसङ्गः | परस्परसन्निधौ च तदेककार्यनिवर्तनस्वभावत्वात् क्रमेण नानाभू-तार्थक्रियाकरणेऽपि नानाभूततत्सहकारिसन्निधौ नानाभूतानेककार्यकर्त्रेकत्वस्वभावत्वात् क्रमेण नानाभूतार्थक्रियाकरणेऽपि न स्वभावभेदः | यथिकस्यैव चैत्रस्य लवनपचनभोजनाद्यनेककार्यकर्तुश्च तत्तद्दात्रादिसह-कारिसन्निधौ तल्लवनादिकार्यकर्तृस्वभावत्वात् क्रमेण लवनादि-भेदेऽपि न स्वभावभेदः, तथाभूतस्वभावस्य तत्र क्रमेणैव भावात् | प्रदीपस्य ह्येकस्यैव वर्तिदहनतैलक्षपणस्वज्ञापनाद्य- नेककार्यनिर्वर्तकैकस्वभावोऽभ्युपगतो भवद्भिः | न तु कार्य-भेदेन स्वभावभेदः | एकस्यैव विशिष्टस्वभावस्यानेककार्यनिर्-वर्तनविरोधाभावात् | तद्वदत्राभ्युपगन्तव्यम् | तत्तत्सहकारिसन्नि-धौ तत्तदनेककार्यकरणस्वभावावियोगात् सर्वदैव स्थिरस्याऽपि भावस्य सहकारिसन्निधानस्य पूर्ववत् क्रमिकत्वात् क्रमेणानेक-कार्यनिर्वर्तनेऽपि न भेदस्वभावो भेदादिति स्थिरस्यार्थक्रियाकर्तृ-त्वं क्रमेण युज्यत इति नार्थक्रियासंभवस्यात्र बाधकत्वम्, तस्याः स्थिरेषु भावेषु संभवात् | यथा च क्षणिकस्यार्थक्रिया न संभवति, तथा विवेचितमस्माभिरागमविवेक इति तत एवावगन्तव्यम् | तत्र बाधकाभावात् स्थैर्यं भावानां प्रत्यक्षसिद्धम-बाधितमेव | तत्रैषां हेतुः प्रमाणेन सिद्धः | ते विनश्वरास्त-दन्ये त्वविनश्वरा एवेत्यात्मनोऽर्थक्रियाकर्तृत्वेऽप्यविनाशः सिद्धः, हेत्वभावात् | एतेन ज्ञत्वविरोधोऽप्यात्मनः प्रागुक्तस्तत्तद्-विषयसन्निधौ तत्तद्ग्राहकैकस्वभावत्वेन पूर्ववद् भावभेदा-भावाद् घटग्रहणात् पूर्वं तु तत्स्वभावभ्रान्तधिया स्वभाव-भेदेन तद्विरोधभ्रमो भवेदित्येवं निरस्तः | ततश्च ग्राहकस्या-विनाशित्वाद् ग्राह्यस्य च वस्तुनोऽभावान्न मुक्तौ तयोर्विनाशः, अपि तु सर्वज्ञत्वमेव युक्तम् | आवृतिस्वभावानां मलकर्ममाया-ख्यानामविद्यादीनां तदानिं निवृत्तत्वादनावृतस्य ग्राहकस्या-वस्थितेः | यदाहुः - प्रभास्वरमिदं चित्तं प्रकृत्यागन्तवो मलाः | तेषामभावे सर्वार्थं तज्ज्योतिरविनश्वरम् || इति ४६ || एवं सर्वनाशपक्षमाभास्येदानीं ज्ञानकर्तृत्वनाशपक्षं निरसितुमाह न च ज्ञानक्रियानाशः सर्वागमविरोधतः | सदीशे युक्तिबाधा च तयोर्नित्यत्वदर्शनात् || ४७ || नहि द्रष्टुर्दृष्टेर्मन्तुर्मतेर्विपरिलोपो विद्यते (बृ० उ० ४|३|२३) इति श्रुत्यगमनिरस्तोऽयं मुक्तौ ज्ञानक्रियानभ्युपगमपक्षः | न च सर्वागमविरुद्धं वस्त्वभ्युपगन्तुमुचितम् | यदाहुः - एकस्य प्रतिभानं तु कुतकान्त विशिष्यते इति | अथ सन्तमप्यर्थं निर्मला न पश्यन्तीति मुक्तौ युक्तिबलेन तद्विरुद्धमपि वस्त्वभ्युपगमयत इति , तत्राह - सदीश इति | सच्चासौ प्रमाणसिद्धत्वादीश्वरश्च, तस्मिन् ज्ञानक्रिययोर्नित्यत्वदर्शनादुक्तानु-मानेन बाधाऽस्य पक्षस्य | अयमर्थः - पदार्थसंग्रहवादिना तावदीश्वरस्य द्रव्यपदार्थ एव, तत्रापि चात्मपदार्थ एव संग्रहो वाच्यो नान्यत्र, अत्यन्तविल-क्षणत्वेन तदयोगात् | तदनन्तर्भावे हि तस्य पदार्थन्तरत्वं द्रव्यान्तर्वं वा भवेदिति पदार्थानां षट्संख्या द्रव्याणां वा नव संख्येत्यभ्युपगमविरोधः | अस्तु तदन्तर्भावः, किमतः ? अतश्च विमत्यधिकरणभावापन्ना मुक्तात्मानः सर्वज्ञाः सर्व-कर्तारश्च, आत्मत्वे सति धर्माधर्मशून्यत्वादीश्वरवदिति युक्त्याऽपि ज्ञानक्रियानाशपक्षः प्रतिक्षिप्तः | धर्माधर्मशून्यत्वं हि सर्वज्ञत्वसर्वकर्तृत्वाभ्यां व्याप्तमीश्वरे सिद्धं सदात्मनां भवत् तत्तद्रूपतां तदा प्रतिपादयतीत्येवं सर्व एवेश्वरसमा मुक्ता भवन्तीति नमुक्तौ ज्ञानक्रियाकर्तृत्वनाशो युक्त इति || ४७ || इदानीम् अव्याकृतादिषु (श्लो २) इत्यादिना पूर्वोद्दिष्टान् पक्षान् प्रतिक्षिपति - उपादानेषु लीनानां पुनरावर्तनं यतः | यत्कारणाधिकारेऽतिविपर्यस्ता लयं गताः || ४८ || भवतु जीवात्मनां कार्यत्वेन तदा तत्र परस्मिन्नकार्यात्मनि महाविभूत्यभिधाने घटादीनामिव मृदि लयो मोक्षः, किन्तु तस्मात् स्थानात् पुनः प्रलयोत्तरं सर्गारम्भ आवर्तनं परावृत्तिः संसारप्राप्तिस्तेषां भवेदित्यर्थः | हेतुमाह - यत इति | कारणस्या-धिकारः पुनः कार्यात्मना परावृत्तियोग्यता, परिणतिधर्मत्वादेव तेन रूपेण तस्याधिक्रियमाणत्वात् | तस्मिन् तथाभूते यतो लीनास्ततः पुनरपि मुक्ता जीववत् परावृत्तौ परिवर्तन्त इति व्यर्थोऽत्र मुक्त्यर्थः प्रयासस्तल्लयवादिनामिति | स्यादेतत् | यद्यपि प्रलये तत्र सर्व एव जीवात्मानो बद्धा अबद्धाश्च लीनाः, तथाऽपि प्रतिसर्गमविद्यादि-वासनायुक्तेन बद्धजीवात्मरूपेणैवासौ बद्धः परावर्तते न त्वबद्धेन, परावृत्तिहेतोरविद्यादेस्तत्राभावादिति | तदयुक्तम्, तस्या- मवस्थायां विभागाभावावादविभागावस्थैव कारणत्वं | तत्राऽपि बद्धाबद्धयोर्विभागे विभागस्याविभागपूर्वकत्वात् तत्प्रकृत्यनुमानं स्फुटमेवेति ततो न परत्वं तस्याः प्रकृतेः, तत्प्रकृत्यन्तरसद्भावात् | प्रकृत्यन्तरे चाऽऽक्षेपप्रतिसमाधाने पूर्वोक्ते एवेत्यनवस्थानात्त्वविभागरूपा, अविभागरूपत्वेऽपि परमकारणस्य प्रागपि तथाभूतस्यैव च स्वरूपापरिमितत्वेन भावाद् जीवात्मलयेऽपि तस्याधिक्यासंभवात्, तत्र च जीवात्मनो-ऽनुपलम्भनात् | यदि परं स जीवात्मा प्रागुपलब्धोऽर्थक्रियाकर्ता स्वरूपेणानुपलम्भ्यमानो ध्वस्त एव भवेदित्यात्मनाश एव मुक्तौ प्रसक्तः | अयमपरोऽस्य दोषोऽस्तीति वक्ष्यति - मुढानां ज्येष्ठमल्लास्ते येषां स्वात्मा विनश्यति (श्लो० ५७) इति | न त्वेतावता प्रोक्तदोषासंभवोऽत्र | स्यादेतत् | किं कुर्मः, प्रमाणवत्त्वादायातः प्रसङ्गः केन वार्यत इत्याह - विपर्यस्ता इति | न प्रमाणवदेव तत्, अपि तु विपर्यासो मिथ्याज्ञानमत्र मलः | तथाहि - नैकस्माद् बोधरूपादुपादान-कारणाच्चेतनविरुद्धकार्य-द्वयोत्पत्तिर्युज्यते, विरुद्धयोरेकोपादा-नत्वायोगाद् भावाभावयोरिव | किञ्च, प्रत्ययाप्रत्ययान्वयित्वात् तद्विकाराणां परमकारणमपि चेतनाम्चेतनात्मकं स्यात्, न चैतन्मातुवंन्ध्यात्वमिव ब्रह्मणापि शक्यमवस्थापयितुम् | अथ कश्चिद्भागस्तस्य चेतनः कश्चिन्नेत्युच्यते | यद्येवं सभागत्वेन घटवत् कार्यत्वासिद्धौ पूर्वोक्तदोषतादवस्थ्यम् | किञ्च, जीवात्मनां कार्यत्वसिद्धौ तत्कारणं परा प्रकृतिः सिद्ध्यतीति तेषां च चेतनत्वान्न कार्यत्वम् | यच्चोक्तमन्वयात् कार्यत्वमिति, तदप्ययुक्तम्, सिद्धत्वादात्मनां समन्वयस्य | समन्वयो हि ग्राह्यस्य कर्मतामापन्नस्य ग्रहीतुं युज्यते | न चात्मा स्वात्मन एव ग्राह्यो भवति, तत्र तस्य व्यापारविरोधात् | स हि ग्राहकत्वेन प्रत्यग्रूपतया सर्वदा प्रतिभासत इत्युक्तं प्राक् | स्यादेतत् | ग्राह्यसमन्वयो ग्राह्यापन्नस्यैव गृह्यते | यस्तु ग्राहकसमन्वयो ग्राहकरूपेणैव तस्मिन्नात्मनि भासमाने भासत इति | तदुत्तरं ग्राहकान्वयो ह्यनेकग्राहकप्रकाशपूर्वकः | न चैकात्मस्वभावग्राहकस्वसंवेदनं ग्राहकान्तरसंवेदन-मस्ति, तस्य ततोऽन्यत्वेन घटादिवत् परत्वात् | नह्यात्मानः स्वयं वेदनमात्राः परस्परं कीर्त्यन्ते, सर्वज्ञत्वस्य सर्वदा प्रसङ्गा-दिति | प्रयेकं स्वात्मसवेदने कस्य कुत्रान्वयः | यद्येवं सर्व एवात्मानः सर्वज्ञस्य ग्राह्यत्वमनतिक्रान्ताः, तत्सर्व एव तेष्वग्राह्येष्वन्वयं ग्रहीष्यन्तीति | तदयुक्तम्, सर्वज्ञात्मनैव व्यभिचारात् | सोऽपि हि स्वसंवेदनेन परमात्मभ्योऽभेदे नैतद् ग्रहीतृतया भासते | न चागृहीतस्यान्वयः संभवतीत्युक्तम्, न च तस्य सर्वज्ञत्वाद् विपरीतग्रहणमुपपद्यते | तद्यथा - तेनात्मान्तरेभ्यः स्वात्मात्यन्तानन्वितरूपोऽसं-भवाद् भ्रमेण स्वानुभवेन गृहीतः, तथैव परात्मनः परस्परं भिन्नाः समन्वयविषयभावमतिक्रम्य वर्तमानास्तेन साक्षात्क्रियन्त इत्यदोषः | अत एव नानुमेयः, न मातुरनुमातृतया वैसादृश्येन भासनात् स्वात्मवत् परात्मनामपीत्यन्तविसदृशतयि-वानुमानात् | यद्येवमसन्नात्माऽश्व-विषाणवत् सत्तयाऽनन्वितत्-त्वादिति नेह सत्तान्वयात् सत्त्वमात्मनाम्, अपि तु स्वरूपसत्त्वात् सत्तावत् परमकारणवद्धा | तस्यापि हि न सत्तायोगात् सत्त्वं भवद्भिरेष्ट-व्यम्, कार्यत्वप्रसङ्गात् | अपि तु स्वरूपं सत्त्वमेवेति नाश्वविषाण-तुल्यता | कथं तस्यान्वयाभावे सर्वेषामनात्मनां च सदित्येक-पदव्यक्तिरात्मपदप्राप्तिः | अपि चात्मनां कथं सापि विचार्यतामिति चेत्तर्हि सत्तान्वयप्रदाने को ग्रहो यिक्तिर्विदग्धस्य | न चैकान्वयनिबन्-धनैव सर्वत्रैकपदप्रवृत्तिः, वृक्षादिशब्दानामनेकरूपात्मके- ऽप्यभिधेये प्रयोगदृष्टेः | पाचकादिशब्दानां योगबलेन प्रवृत्ति-रित्येवमत्रापि संभवाददोषः | यद्वा उक्तवदन्वयासंभवेऽ-प्यात्मनां सादृश्यनिबन्धनैवैकपदप्रवृत्तिः, घटानामिव घटशब्दस्य | तथा सन्निवेशविशेषात्मनो घटशब्दवाच्यत्वात् तस्य घटान्तरेऽप्यविशेषात् | नन्वस्ति घटानां घटत्वेनान्वयः | यद्येवं घटत्वादुत्-पत्तिस्तदन्वयाद् घटानां प्रसज्यते | तेन च घटानां न घटत्वा-दुत्पत्तिः, अपि तु मृदः | तस्मादन्यत् सादृश्यम्, अन्योऽन्वयः | सादृश्यं हि सामान्यमिहोच्यते तदेकपदाभिलभ्यत्वे हेतुः | यथाऽयमपि घटोऽयमपीति | तच्च न तदवयवे भवति | यन्न कण्ठे बुध्ने वा घटबुद्धिः, नापि तत्कार्ये कर्परादौ तद्दृष्टम्, कर्पराणां वैसादृश्येनैव घटविषयत्वात् | यस्य त्वर्थस्य कार्य प्रत्यवयवं च सिद्धसदृशतरेऽपि वस्तुनि तेन रूपेण सर्वत्रैवानु-वृत्तिः सोऽन्वय उच्यते | स एव च एककारणत्वकल्पने भवति | तथा दृष्टत्वाद् घटाशरावादिषु हि विसदृशतरेष्वपि तदवयवेषु च कण्ठादिषु तत्कार्येषु च कर्परादिषु सर्वत्र मृदन्वयदृष्टेर्मृत्-कार्यत्वाविनाभावसिद्धिरिति भेदः | सादृश्यसमन्वययोस्तदन्य-त्रान्व्याभावेऽपि सादृश्यनिबन्धनैवैकपद- प्रवृत्तिर्घटत इत्यदोषः | अत एव तत्र वृत्तिकार आह - शिवश्चात्मनः समानजातीयः इति, सादृश्यमेव चेतनानामिह स्थितिः इति | ननु सादृश्यमप्यग्राह्यात्मनोऽस्य नैव ग्रहीतुं शक्यम् ? सत्यम्, आत्मपदाभिधेयत्ववददूरविप्रकर्षेण व्यवहारार्थं वैसादृश्यपरिचारमात्रेण कथञ्चिदत्रोपचर्यते, न वस्तुतः | यदाहुः- नेति नेतीत्यात्मगतिः | इति सर्वमनवद्यम् | इत्थं चेतनोपादानात्मकपरमकारणसंभवेऽपि मुक्तिं तत्प्राप्तिरूपां प्रति पुनः पुनरावृत्तिदोष उक्तः | अनेनैवान्येऽपि प्राणाहङ्कारादिलयवादिनः पूर्वोद्दिष्टाः प्रतिक्षिप्ताः- उपादानेषु लीनानां पुनरावर्तनं यत इति || ४८ || इदानीं विलयः परमात्मनि (श्लो० २) इति पक्षं प्रतिक्षिपति - उपादानत्वसंसिद्धिर्वेदान्ते परमात्मनः | उपादाने प्रलीनस्य ध्रुवं प्राग्वन्निवर्तनम् || ४९ || समस्तजगदुपादानकारणत्वं परमात्मनो वेदान्तागमेषु प्रसिद्धमेव | तस्मिन्नुपादाने लीनानामुपविष्टानामपि प्राग्वद-वश्यं तत्स्वभावान्निवृत्तिः पुनः परावृत्तिरित्यर्थः | ननु पूर्वोप-न्यस्तवेदान्तदृशाऽस्य समस्तस्य भेदात्मनो जगतो विद्याविलसितत्वे-नाऽसत्यतया कार्यत्वासंभवेन कथं ब्रह्मणस्तदुपादान- कारणत्वमत्र दोषहेतुत्वेन गृह्यत इत्युच्यते | कथमसत्यता तस्य जगतः ? किं लक्षणं वा सत्यमुच्यते ? अत्राहुः - बोधरूपत्वमेव सत्यलक्षणम् | तदभावाद् घटादेरसत्यता | बोधास्ते न बोद्ध्यात्-मका यत इति | यदाहुः - परेण वेदनं यस्य न संविद्यत एव, वैचित्र्यमात्रेण सदसद्व्यवस्था सतां समुचिता, वैपरीत्यस्याऽपि संभवात् | असत्त्वे तु कारणं सन्नबाधकं वक्तव्यम् | बाधक-मन्तरेण सर्वभावानां सत्त्वमनुभवसिद्धं प्रेक्षावतां न त्यक्तुमुचितं यतः | स्यादेतत् | परविज्ञेयानां सर्वथा परमाणुरूपतया स्थूलाद्यात्मकतयाऽपि विचारयितुमशक्यत्वादवस्तुत्वेन स्वप्नवदविद्यारूपत्वं स्वनिरूपणाक्षमत्वं वाऽविद्यायाः स्वरूपम्, स्वनिरूपणक्षमत्वमेव विद्यायाः स्वरूपं यतः | बोधात्मवस्तुनस्तु तदैकस्वभावतया तद्व्यवस्थापकत्वेन स्वतः सिद्धेर्न तथात्वमिदमसत्त्वकारणं सत्ताबाधकमिति | तत्र विचारः- पुरुषप्रतिभात्मजन्मकः प्रमाणविशेषः | यदि च पुरुषप्रमाणमविद्याऽपस्माराक्रान्ततया प्रतिभावैकल्येन भावस्वभावनिरूपणासामर्थ्ययुक्तम्, किमेतावता भावैरपराद्धम्, येन तेनाभावा असन्तः कथिताः | नह्येष स्थाणोरपराधो यदेनमन्धो न पश्यतीति, पुरुषापराधस्तु भवति | विचारयितुमशक्यत्वेन च भावानां तद्विषयः संशयो युक्तः, तत्साधकबाधकप्रमाणाभावेन तस्य न्यायप्राप्तत्वात् | न त्वसत्तानिश्चय इति भावस्वभावविचारेण प्रवृत्तेः साधु तद्विचारः कृतः | संशयस्यैव गोपालाङ्गनाबालस्थविरस्थस्येत्थं सिद्धान्तितत्वात् | न च विचारयितुं शक्यत्वमेव भावानाम्, पूर्वं ज्ञानकाण्ड एव विस्तरेण विचारितत्वादिति नातोऽपि तेषामसत्यत्वम् | ननूक्तं प्राक्, ब्रह्मैव सत्यम्, असत्यास्तु भेदा इति | सिद्धार्थ-प्रतिपादकत्वेनापि श्रुतेः प्रमाणत्वात् श्रुतितः सदसद्व्यवस्थेति | यद्येवं प्रमाणत्वादत्र श्रुतिवाक्यानामपि सत्यत्वे ब्रह्मैव सत्यमित्यद्वैतविरोधः, प्रमाणप्रमेयादिसत्तानिबन्धनत्वादद्वै-तस्य | अथैतान्यपि श्रुतिवाक्यान्यसत्यान्येवेष्यते, यद्येवमप्रमाण-त्वादित्थमेषां ब्रह्मसत्यत्वसिद्धौ भेदासत्यत्वे च प्रमाणान्-तरं वक्तव्यम् | नह्यसत्यं प्रमाणं बन्ध्यासुतज्ञानमिव भवति यतः | प्रमाणान्तरे चाक्षेपप्रतिसमाधाने पूर्वोक्ते एवेत्य-नवस्थितेर्न सत्याद्वैतसिद्धिः | परमार्थतो भेदोऽस्त्येवेति कथमित्थ-मद्वैतस्वभावान्येव तानीति कस्य क्व प्रमाणानि, द्वैतनिबन्धनत्वात् प्रमाणप्रमेयव्यवस्थितेः | सत्यमेतत्परमार्थतोऽयमविद्यारूप एव प्रमाणादिव्यवहार इति चेत् | ननु स एवायं विचार्यते | प्रमाणा-नामसत्यत्वादेषोऽपि निश्चयो भवतोऽप्रमा | एतच्च यदवगतं तदसत्यमेव द्विचन्द्रादिवदिति | ब्रह्मणोऽप्यसत्यत्वात् सर्वाभावो वेदार्थः साधु निरूपितः प्रज्ञाशालिभिः | नन्वविद्यारूपाण्यपि श्रुतिवाक्यानि विद्योपायभूतान्येवेति, इदं मुग्धश्रोत्रियप्रतारकमुच्यते | प्रमाणानामसत्यत्वे सर्व-मेतन्मनोराज्यतुल्यम् | सत्यत्वे वा द्वैतपक्ष एव प्रकाशते | तदभेदे हि सर्वमेवेदं ब्रह्मेति कस्तत्र कस्य किं कुर्यादित्यसङ्गतम् | बिम्ब-स्य न तत्र भ्रान्तिः सम्भवति | भ्रान्तिमपि स्वप्नादिविज्ञानं सर्व-मालम्बते भ्रान्तं न स्वात्मनि | आलम्बनं च बहिस्थितमन्यथा प्रतीयमानं भ्रमविषयतामापादयति | युत्पुनर्बोधैकस्वभा-वं वस्तु तद्यथैव चाक्स्ति तथैव ततः स्वसंवेद्यस्य तत्स्वभावत्-वायोगात् | तत्स्वभावत्वे वा स्वसंवेद्यमेवेति स्वसंवेदने भ्रान्त्य-संभवादात्मभेदः प्रत्येकं परात्मानुमातृतया स्वसंवेद-नेन सिद्धः सत्य एव | श्रुतिरप्याह तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति (कठो० ५|१५; श्वे० उ० ६|१४; मु० उ० २|२|१०) इति | नन्वितरेतराभावसिद्ध्यपेक्षत्वाद् भेदस्य भावविषयत्वाच्च प्रत्यक्षस्य कथं भेदः प्रत्यक्षः ? तदुक्तम् - आहुर्विधातृ प्रत्यक्षम् (ब्र० सि० २|१) इति | नेतरेतराभावसिद्ध्यपेक्षा भेदैक्यम्, तर्हि सिद्धे भेदे तदितरेतराभावप्रतिपत्तिः, सर्वैक्ये हि न कस्यचित् कुतश्चिदभाव इति घटार्थी पटदर्शनात् किमिति निवर्तते | प्रमाणा- प्रमाणतदविभागश्च न स्यात्, सत्तामात्राव्यभिचारात् | सर्वज्ञा-नामप्रत्यक्षसिद्धो भेद एवेति कथमसत्यत्वं पाठमात्रेण साध्यते | भवतु सत्यम् | तथाऽपि ब्रह्मोपादानं ह्येतदिति श्रुतितस्-तदुपादानं ब्रह्म भविष्यतीति | तर्ह्येतदेवात्रोक्तं वृत्तिकृता- किमर्थमाक्षेपः ? उपादानेषु लीनानां पुनरावर्तनम् इति | अत्र चोक्तो दोष इत्याह - उपादानेति || ४९ || ननु च आनन्दं ब्रह्मणो रूपम् इति श्रूयते, तेन च रूपेण परावृत्त्ययोगात् | स्थूलरूपपरावर्तनेऽपि न तल्लीनानां भविष्यति परावृत्तिदोष इत्याह - विज्ञानमात्रमानन्दं वस्तु सत्यं न तत्र हि | नैवंविधमुपादानं दृष्टं तन्त्वादि सूरयः || हे सूरयः पण्डिताः ! तत्र ब्रह्मणि विज्ञानं परमार्थतो नास्ति, पटाद्युपादानानं तन्त्वादीनामिवोपादानकारणत्वात् || ५० || कथं तर्ह्येताः श्रुतय इत्याह - भुवनत्वे निविष्टस्य तत्स्थितस्योपपद्यते | गुणतस्तत्र संस्थानां भोगिनां मुख्यलक्षणम् || तद्विज्ञानरूपत्वं तस्य ब्रह्मणो भुवननिमित्तं भोगदातृतया परिणतस्य गुणत उपचारतः कथ्यते न मुख्यतः, भुवनस्थभोक्तृविज्ञानयोगात् | मञ्चाः क्रोशन्तीतिवद् विज्ञानं ब्रह्मणो रूपमित्युपचारेण श्रुतयो व्याख्येया इत्यर्थः | यदाहुः - तत्रेति | तत्र भुवनस्थितानां भोगिनामात्मनामेतन्मुख्यरूपं न ब्रह्मण इति || ५१ || तर्हि तथाभूतभुवनप्राप्तिरूपोऽस्माकं मोक्षो भविष्यतीत्याह - भुवनस्य विनाशित्वं दृष्टत्वात् तद्विनाशने | तद्भोक्तॄणामपि भवेत् तेनैषा न ध्रुवा गतिः || ५२ || भुवनविनाशाद् दृष्टो भोक्तृविनाश इति सोऽप्यध्रुवो मोक्षः || ५२ || तदियता परमात्मलयपक्षं प्रतिक्षिप्याधुना कैवल्यमोक्षं प्रतिक्षिपति - गुणतत्त्वोर्ध्वभोग्यस्य कर्मणोऽनुपलब्धितः | कैवल्यमपि सांख्यानां नैव युक्तमसंक्षयात् || ५३ || सांख्यानां मुक्तौ कर्मक्षयतो भोक्तृत्वनिवृत्त्यात्मकं यत् कैवल्यं तदयुक्तम् | कुतः ? इत्यत्राह - असंक्षयादिति | गुणतत्त्वोर्-ध्वभोग्यस्य कर्मण इति संबन्धः | यद्यपि गुणभोक्तृत्वं निवृत्तं सांख्यमुक्तानाम्, तथापि गुणतत्त्वादुपरि सांख्यापरि- दृष्टरागविद्यादितत्त्वविषयाणि कर्माण्यक्षीणानीति तद्भोक्तृत्वम-निवृत्तमेव यतः | कथं तेषां कर्मणां तदा न क्षय इत्याह- अनुपलब्धित इति | उपलब्धिर्भोगः | यदुक्तम्- भोगोऽस्य वेदना पुंसः इति | तदभावोऽनुपलब्धिः | ततः क्रमेणोपर्युपरि स्थिततत्त्वविषयाणि कर्माणि भोक्तव्यानीति | न तावत् तस्तानि भुक्तानि यत इत्यर्थः | ननु ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन ( भ० गी० ४|७) इति सांख्यज्ञानात् कथमक्षीणानि तान्युच्यन्ते, गुणपुरुषान्-तरख्यातिमात्रफलं सांख्यज्ञानमिति तदुपरि कर्मक्षयस्य कः प्रसङ्गः | ननु गुणनिवृत्त्यैव बुद्ध्यादिकरणानामपि निवृत्तेः कथं ते.आं करणौर्विनोपभोगः | न तु गुणप्रवृत्तिः करणसं-बन्धहेतुरात्मनाम्, अपि तु समत्वे सति कर्माणि | यदुक्तम्- कर्मतश्च शरीराणि विषयाः कारणानि च (स्वा० ३२|१३) इति | कर्माणि चोक्तानि तावत् तेषां सन्तीति कारणानामप्यनिवृत्तेः | तत्र भोक्तृत्वे शङ्का - केवलतैवेति | किं तर्हि सांख्यज्ञानात् तेषां निवृतम् ? किमन्यन्निवर्त्यतां गुण भोक्तृत्वनिवृत्तिरेवेति || ५३ || अत्र सांख्यविशेषदृष्ट्या परः सर्वकर्मक्षयं तेषां भोगेन दर्शयति - कर्मैकं जन्मकृत् सर्वं नोपादानलयश्रुतेः | इन्द्रत्वादिफलं वेदेऽप्युच्यते तत् पृथक् पृथक् || ५४ || इह जन्मप्रयाणमध्ये यत्कृतं शुभाशुभकर्मजातं तत्सर्वं प्रधानोपसर्जनभावेनावस्थितं प्रयाणाभिव्यक्तं युगपदेव समुच्छ्रितमेकमेव जन्म करोति | न तु जन्मान्तरे फलदा-नायावशिष्टं भवति प्रतिपालयति | क्रियारूपत्वात् कर्मण आरब्ध-कार्यस्यानुपपत्तिरित्येक-भविककर्मवादिनः | ततश्च प्रकृतजन्म-नैव तेषां प्राक्तनसर्वकर्म-क्षयोऽनुमितोऽभिनवकर्मक्षयश्च ज्ञानादिना जातः | तदुद्भूतो गुणतत्त्वोर्ध्वभोग्यकर्मसन्ततिः | एतन्निराकरोति- नेति | नैष नियमः, किन्तु कानिचित् कर्माणि द्वितीयादिजन्मकर्तृण्यपि सन्ति | कुत इत्याह- उपादान इति | उपादाने प्रकृतौ कर्मणां लयः संस्कार-रूपेणावस्थानं श्रूयते यतः | प्रकृतौ कर्मसंस्कार स्थितः सर्व इति | ततस्तु तत्पाककालमासाद्य पुनर्भोगाय प्रवर्तत इति | न केवलमिहैव कर्म श्रूयते, यावद्वेदेऽपीत्याह - इन्द्रत्वादिफलमिति | वाजपेयेन स्वाराज्यकामो यजेत (आप० श्रौ० १८|१|१) इति स्वराज्यमिन्द्र-त्वं तत्फलं कर्म, आदिग्रहणात् स्वर्गादिफलं निषिद्धब्रह्मह-त्यादि नरकफलं च श्रूयते | तत् पृथक् पृथगिति | जन्म करोतीति संबन्धः, परस्परविरुद्धफलानां युगपदेकजन्मकरणासं- भवात् | न च नाशोऽपि कर्मण इत्यवश्यं जन्मान्तरफलदानाय तानि प्रतिपादयन्तीत्यभ्युपगन्तव्यमित्यसंभव एवैभविककर्म-वादस्य | तदुक्तम् - फलति यदि न सर्वं तत् कदाचित् तदैव धुरुवम-परमभुक्तं कर्मशास्त्रीयमास्ते (श्लो० वा०, चित्रा० २६) इति | नन्वेतावताऽऽरब्धकार्यं कर्मैव न संभवतीत्युक्तम्, कोऽन्यथा एतदाह, किन्तु सर्वेण धर्माधर्मात्मकेन पुरुषकर्-मणा स्वफलानुग्राहिणा प्रकृतिसंस्कार एव कार्यः, तथा दृष्ट-त्वात् कृष्यादेरपि पुरुषव्यापारस्य | सतु तेनाप्यारब्ध एव | संस्का-रस्त्वसौ स्वपरिपाकापेक्षः प्रतिबन्धकतीव्रकर्मफलभोगक्षया-पेक्षया क्वचिद् विशिष्टभुवनभोगक्षयापेक्षया विरुद्धकर्मफल-सहकारिसहायः केवलो वा कस्मिश्चिज्जन्मनि कदाचित् तफलं निक्षेप-मिव पुरुषाय दास्यतीत्यसर्वज्ञैः कर्मविपाकवैचित्र्यं नावधा-रयितुं शक्यत इति जन्मान्तरफलदकर्मसंभवादुक्तवदेव केवलितैव सांख्यमुक्तानामिति || ५४ || ननु युष्मदागमेऽपि केवलित्वमात्मनः श्रूयते, कथमित्याह- अङ्गुष्ठमात्रभुवने कैवल्यं संभवेत् पशोः | विज्ञानयोगसंन्यासैर्भोगाद्वा कर्मणः क्षयात् || ५५ || अङ्गुष्ठमात्रादिसंज्ञकनिवासस्थाने कलाभुवने विज्ञा-नेन मायापुरुषविवेकविषयेण, योगेन प्रत्याहराद्यङ्गोपकृतेन चित्तजयात्मना, मायाविवेकफलेन संन्यासेन वा कर्मणः सर्व- मीश्वरायैतदितीश्वरार्पितसर्वकर्मणस्तत्फलविषयेण भोगेनैव वा सर्वकर्मक्षयात् सर्वथा भोक्तृत्वनिवृत्तिनिमित्तं कैवल्यं संभवति तत्रैव, न तु भवदुक्ताविति || ५५ || ननु तदेव कैवल्यमस्माकं मोक्षो भविष्यतीत्याह- जातं मुक्त्यर्थमात्मायमित्थमात्मलयः फलम् | उपादाने लयस्यैव दृक्क्रियागुणसंक्षयात् || ५६ || यत्तदपि कैवल्यं मुक्तिरिष्टा, तदपि हि मलसद्भावादात्मनः प्रत्युत अकलावस्थावत् किञ्चिज्ज्ञत्वकर्तृत्वयोरप्यभावात् फलमात्-मनाश एव भवतामपि गुणोपादानाव्यक्तलयो मोक्षो यतः || ५६ || एवं सांख्यपक्षमप्याभास्योपसंहर्तुं सर्वान् प्रत्याह- मूढानां ज्येष्ठमल्लास्ते येषां स्वात्माऽपि नश्यति | ज्ञातॄणां पण्डितंमन्याः शिखासंक्रान्तिवादिनः || ५७ || त एते सर्ववादिनो मूढप्रधानाः श्रेयोर्ऽर्थिभिर्दूरतरं परिहार्याः, येषामश्रेयस्येवात्मनाशे तत्सदृशे वा परश्रेयो-बुद्धिः, अपुरुषार्थभूतः सर्वेषां मोक्ष इत्यर्थः | तथाहि - ज्ञातुर्ज्ञेयस्य (मतङ्गपारमेश्वरवृत्तौ (वि० ५|६०-६१) अस्माभिरन्यत्र इत्युक्त्वोद्धृतमेतद्वचनं शिवयोगसारे (पृ० ३३) तदुक्तं मन्त्रवार्त्तिकटीकायामित्येवं स्मर्यत इति तत्रस्था (पृ० १२५) १९ संख्याका टिप्पणी द्रष्टव्या |) वा ज्ञप्तेरभावात् सर्ववादि-नाम् | आत्मनाशसमो मोक्षो ज्ञत्वव्यक्तौ परत्र तु || इति | ननु संक्रान्तिवादिनां नात्मनाशो विमुक्तावित्याह- ज्ञातृणां पण्डितंमन्या इति शिखा शक्तिः, तत्संक्रान्तिवादिनो मुक्ताव-पण्डिता एव, यतो नास्मात् प्रसङ्गान्मुच्यत इत्युक्तम्- शम्भुरेव हि तत्रापि सर्वं वेति करोति च (श्लो० २९) इति || ५७ || यद्येवं सर्वेषामेव मोक्षशास्त्राणां मुक्तवद् बाधितत्वात् परस्परविरोधाच्च किं प्रामाण्यम् ? एवं नेत्याह - वस्तुन्यूनत्वमन्येषां रागादूर्ध्वमभाषणात् | तेन मायानतीतत्वाज्ज्ञातारः सद्मसु स्थिताः || ५८ || नहि सर्वेण प्रमाणेन सर्वार्थेन भवितव्यमित्यल्पार्थप्रका-शकत्वेन प्रत्यक्षादिवदेवान्यान्यपि प्रमाणान्येव | कथं स्वल्पार्थदर्शित्वमेषामित्याह- रागादूर्ध्वमभाषणादिति | रागविद्यादितत्त्वजातं च तदूर्ध्वप्रक्रिया गुणादिभ्यस्तदूर्ध्वं चितः | ऊर्ध्वशब्दसमानार्थोऽयमूर्ध्वशब्दः | तस्य रागादूर्ध्वं समस्ततत्त्वजातस्यानुक्तेर्न्यूनदर्शित्वं तेषाम् | यद्येवमागमान्तरैः किं प्राप्यत इत्याह - तेन मायानतीतत्वादिति | येन रागादूर्ध्वं तैर्न दृष्टं तेन मायातत्वादधस्ते ज्ञातारो दर्शनान्तरमुक्तास्तत्त्वभुवनस्कन्धेषु लीनाः | कस्य कस्मिन् लय इति चेत्, तदेतद् दर्शितमागमप्रामाण्योपन्यासे || ५८ || स्वेन ज्ञानकाण्डे उपसंहर्तुमाह - इत्येवं वादिगीतानि फलान्युक्तानि लेशतः | तत्साधनेषु शिष्याणामप्रवृत्तिफलं प्रति || ५१ || इति सद्योज्योतिःशिवाचार्यकृता परमोक्षनिरासकारिका समाप्ता || सर्ववादिसिद्धानि फलानि मुक्तिलक्षणान्येव संक्षेपेणोक्तानि | किमर्थं प्रत्युक्तमिति चेदेतदुक्तम् | फलसाधनं शास्त्रमनव-धार्य निकृष्टफले प्रवर्तन्त इति श्रेयोऽर्थिभिरेवाऽयोगव्यवच्छेदे-नात्रैव प्रवर्तनीयम् | अस्माद्धि पररूपं निःश्रेयसं संपाद्यत इति | एतद्रौरववृत्तिकृन्मतधिया दीक्षाक्रमात् कारिकाः सर्वान्यागममोक्षदूषणगता गाम्भीर्यतो नैव याः || स्वल्पज्ञैरवगाहिताः किल यतस्तद्रामकण्ठस्त्विमं तन्नारायणकण्ठसूनुरकरोदासां विवेकं स्फुटम् || इतिश्रीमद्भट्टनारायणकण्ठात्मजश्रीभट्टरामकण्ठ-विरचिता परमोक्षनिरासकारिकावृत्तिः समाप्ता || ########### END OF FILE #######